________________
तस्वन्यायविमाकरे
[ सप्तमकिरणे क्षेत्रद्वार इति । जन्मसद्भावाविति । जन्म-उत्पत्तिः, सद्भावो विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वम् | कर्मभूम्यामिति । अकर्मभूमौ जन्मतो न भवन्ति, तत्र जातानां चारित्राभावात् , अत्रैवैते चत्वारः स्वयं विहरन्ति, परकृतविहारापेक्षया तु कर्म
भूमावकर्मभूमौ वेत्यपि बोध्यम् , पञ्चभरतपञ्चमहाविदेहपञ्चैरावतानि कर्मभूमयः । हैमवत5 हरिवर्षदेवकुरुत्तरकुरुरम्यकैरण्यवतानि पञ्चभिर्गुणितानि षडकर्मभूमय इति । संहरणापे
क्षयेति, संहरणं नाम क्षेत्रान्तरारक्षेत्रान्तरे देवादिभिर्नयनम् । अकर्मभूमाविति, कर्मभूमावपीति बोध्यम् । कर्मभूमावेवेति, तत्रैव जायते विहरति चेति भावः । नास्येति, एतल्लब्धिमतो देवादिभिस्संह मशक्यत्वादिति भावः ॥
कालद्वारमाह10 कालद्वारे-सामायिक उत्सर्पिण्यामवसर्पिण्यां मोउत्सर्पिण्यवस
पिण्यामपि काले स्यात् । तत्र यद्युत्सर्पिण्यां स्यात्तदा जन्मतो दुष्षमानुष्षमसुषमासुषमदुष्षमारूप अरकत्रये, सद्भावतस्तृतीयतुर्ययोः, संहरणतो यत्र कापि स्यात् । यद्यवसर्पिण्यां तदा जन्ममदावाभ्यां
तृतीयचतुर्थपञ्चमेषु पूर्वक्रमविपरीतेष्वरकेषु, संहरणतस्सर्वेषु स्यात् । 1। यदि नोउत्सर्पिण्यवसर्पिण्यां तदा महाविदेहे दुष्षमसुषमासहशारके
स्यात्। एवं छेदोपस्थापनीयोऽपि, परन्तु जन्मसद्भावापेक्षया नोउत्सर्पिण्य. वसर्पिण्यां न स्यात् ।।
कालद्वार इति । उत्सर्पिण्यवसर्पिणी नोउत्सर्पिण्यवसर्पिणी चेति त्रिविधः कालः । तत्राद्यौ द्वौ कालौ भरतैरावतक्षेत्रयोः, तृतीयो महाविदेहहैमवतादिषु भवति । जन्मतो 20 दुःषमेति, द्वितीयतृतीयचतुर्थरूप इत्यर्थः । तत्र द्वितीयस्यान्ते जायते तृतीये चरणं
प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायते चरणं प्रतिपद्यते चेति बोध्यम् । सद्भावमाश्रित्य तु तस्य तृतीयचतुर्थयोरेव सत्तेत्याह सद्भावत इति । तयोरेव चरणप्रतिपत्तेरिति भावः । यत्र कापीति, षट्स्वपीति भावः । पूर्वक्रमविपरीतेष्विति, सुषमदुष्षमा.
दुष्षमसुषमादुष्षमारूपेष्वित्यर्थः । संहरणतस्त्विति, देवादिकृतसंहरणावच्छेदेनेत्यर्थः । 25 सर्वेष्विति, अरकेष्विति शेषः, यस्य कस्यचिदरकस्य सदृशः कालो यत्र तत्रापीत्यर्थः ।
सुषमसुषमायाः सदृशः कालो देवकुरुत्तरकुरुषु, सुषमासमकालो हरिवर्षरम्यकेषु, सुषमदुष्षमासमानकालो हैमवतैरण्यवतेषु, दुष्षमसुषमातुल्यकालो महाविदेहेषु, दुष्षमादुष्षमदुष्षमासनिभः कालो न कापि क्षेत्र इति बोध्यम् । छेदोपस्थापनीयस्य प्रायः सामा