________________
पाणि ]
न्यायप्रकाशलमलहते। सम्प्रति प्रसङ्गादेतेषां विशेषप्रतिपत्त्यर्थं सामायिकादिसंयमिन आश्रित्य षट्त्रिंशत्प्रकारेण विवेचयितुकामस्तान् प्रकारानामग्राहमादौ वक्ति
तत्र द्वाराणि प्रज्ञापनावेदरागकल्पचारित्रप्रतिसेवनाज्ञानतीर्थलिङ्गशरीरक्षेत्रकालगतिसंयमसन्निकर्षयोगोपयोगकषायलेश्यापरिणामबन्धवेदनोदीरणोपसम्पद्धानसंज्ञाऽऽहार भवाकर्षकालमानान्तरसमुद्धातक्षेत्र- 5 स्पर्शनाभावपरिणामाल्पबहुत्वेभ्यः षट्त्रिंशद्विधानि ॥
तत्रेति । द्वाराणीत्यस्य षट्त्रिंशद्विधानीत्यप्रेतनेनान्वयः ॥ अथादौ प्रज्ञापनाद्वारमाह
तत्र प्रज्ञापनाद्वारे-सामायिकसंयत इत्वरिको यावत्कथिकश्चेति 10 द्विविधः । छेदोपस्थापनीयस्सातिचारी निरतिचारी चेति द्विविधः। परिहारविशुद्धिको निर्विशमानो निर्विष्टकायिकश्चेति द्विविधः। सूक्ष्मसम्परायसंयत उपशमश्रेणीतः पृच्यवमानः, उपशमक्षपकश्रेण्यन्यतरारूढश्चेति द्विविधः । यथाख्यातोऽपि छद्मस्थः केवली चेति द्विविध इति बोध्यम् ॥
तत्रेति । सामायिकस्संयमस्तेन संयत इत्यर्थः । इत्वरिक इति । भाविव्यपदेशान्तर- 15 योग्याल्पकालिकसंयमयुक्त इत्यर्थः । स च प्रथमान्तिमतीर्थसाधुर्बोध्यः। यावत्कथिक इति । ब्यपदेशान्तरायोग्ययावज्जीवसंयमभृत्, मध्यमतीर्थकृद्विदेहक्षेत्रसम्बन्धिसाधुरिति भावः । सातिचारीति । अतिचारवानारोप्यमाणसंयमवानित्यर्थः । निरतिचारीति । अतिचारविधुर आरोग्रमाणपुनर्बतिक इत्यर्थः । सोऽयं शैक्षकः पार्श्वनाथतीर्थादन्तिमतीर्थ संक्रममाणश्च । निर्विशमान इति । प्रक्रान्तचारित्रभोक्तेत्यर्थः । निर्विष्टकायिक इति । उपभुक्तप्रक्रान्तचारित्र 20 इत्यर्थः । इतरत्स्पष्टम् ॥
वेदद्वारमाह
वेदद्वारे-सामायिको नवमगुणस्थानावधि वेदको वेदत्रयवांश्च । नवमान्ते तूपशमात्क्षयाद्वा वेदानामवेदकोऽपि भवेत् । एवं छेदोपस्थापनीयोऽपि । पारिहारिकः पुरुषवेदो वा पुनपुंसकवेदो वा स्यात् । सूक्ष्मस- 25 म्परायो यथाख्यातश्चावेदक एवेति ॥