________________
: १५:
तस्याधिभाकरे
[ सप्तमफिर
वेदद्वार इति । सामायिक इति, यावन्नवमगुणस्थानं सामायिक संयतव्यपदेशः, नवमे च वेदानामुपशमः क्षयो वा भवति, अतस्तदवधि सवेदः, वेदत्रयवानपि । उपशान्ते वा क्षीण वा वेदे तदानीमवेदकोऽपीति भावः । इदमेवातिदिशत्यन्यत्रापि एवमिति । पारिहारिक इति तपोविशेषयुक्तः परिहारविशुद्धिक इति यावत् । परिहारविशुद्धिकलब्धेः स्त्रियोऽभावान्न 5 स्त्रीवेदकः । पुंनपुंसक वेदो वेति । पुरुष एव सन् यो वर्द्धितकत्वादिभावान्नपुंसक वेदको, न तु जन्मनपुंसक वेदक इत्यर्थः । अस्योपशमक्षपक श्रेण्योरभावेनावेदको नेति भावः । सूक्ष्मसम्पराय इति । उपशमक्षपकश्रेणिद्वय एवैतयोर्भावेनावेदकावेवेति भावः । एवञ्चोपशान्तवेदक वा क्षीणवेदको वैतौ स्यातामिति तात्पर्यम् ॥
10
रागद्वारमाह-
रागद्वारे - सामायिकादिचत्वारस्संयतास्सरागा एव । यथाख्यातसंयतस्त्वराग एवेति ॥
15
रागद्वार इति । सामायिकादीति । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायसंयतास्सरागा एव सकषाया एवेत्यर्थः । अराग एवेति, अकषाय एवेत्यर्थः, उपशान्तकषायवीतरागः क्षीणकषायवीतरागश्चेति भावः ॥
कल्पद्वारमाह
कल्पद्वारे - सामायिकसूक्ष्मसम्पराययथाख्याताः स्थितकल्पेऽस्थितकपेच, छेदोपस्थापनीयस्स्थितकल्प एव भवेत् । परिहारविशुद्धिकोऽपीश एवं । अस्थितकल्पो मध्यमतीर्थकरतीर्थेषु विदेहे चेति ॥ अथवा सामायिको जिनकल्पस्थविरकल्पकल्पातीतेषु भवेत् छेदोपस्थापनीयपरि20 हारविशुद्धिकौ न कल्पातीते । सूक्ष्मसम्पराययथाख्यातौ तु कल्पातीत
एव स्याताम् ॥
कल्पद्वार इति । दशविध साधुसमाचारः कल्पः, स च सततं प्रथमचरमजिनसाधुभिरवश्यमासेव्यते, अतस्सततासेव्यमानस्स कल्पः स्थितकल्पः । साधुसमाचारेषु दशस्वाद्यत्वारो नियतं मध्यमजिन साधुभिरासेव्यन्ते नेतरे, इत्यस्थितकल्पा उच्यन्ते । 25 सामायिक इति एषां चतुर्विंशतितीर्थकर तीर्थेषु सत्त्वेनैते स्थितकल्पेऽस्थितकल्पे च
१. कालस्वभावात्साधवस्त्रिविधपरिणामिनः, तत्राद्यसाधव ऋजुजडा अन्त्यसाधवो वक्रजडा मध्यमास्तु ऋजुप्राज्ञाः, तत्र ऋजुजडा यावन्मात्रं परिस्फुटेन वचसा वार्यते तावन्मात्रमेवैते वर्जयन्ति न सामर्थ्यलब्धमिति