________________
तत्वन्यायविभाकरे
! १८४ :
[ सप्तमकिरणे
कृत्यं स्पष्टम् । तद्विभजते इदमिति । उपशान्तकषायाभिरल्पप्रत्यय लाभान्मुख वस्त्रादिषु ममत्वबायुना सन्धुक्षमाणश्चरणेन्धनमा मूलतो दहन् संकिश्यमानाध्यवसायबलेन प्रतिविशिष्टाध्यव - सायात्तं प्रच्यावयति अत इदं संक्लिश्यमानकं चारित्रमुच्यते तच्चोपशम श्रेणीतः पततो भवतीत्याशयेनाह - उपशम श्रेणीत इति । तत्रोपशम्या अनन्तानुबन्धिनो मिध्यात्वत्रयं नपुंसक5 स्त्रीवेदौ हास्यादिषट्कं पुंवेदोऽप्रत्याख्यानप्रत्याख्यानावरणाः संज्वलनाश्च । आरम्भकोऽस्याः श्रेणेरप्रमत्तसंयतः | अविरतदेशप्रमत्ताप्रमत्तविरतानामन्यतम इति केचित् ॥ अनुक्षणं विशुद्धाध्यवसायवतश्चारित्रं विशुद्ध्यमानकमुच्यते तच्च श्रेणिमारोहत एव भवतीत्याह - द्वितीयन्त्विति । क्षय्यास्त्वनन्तानुबन्धिनो मिध्यात्वत्रिक मप्रत्याख्यानप्रत्याख्यानावरणा नपुंसकस्त्रीवेद हास्यादिषट्कं पुंवेदस्संज्वलनाश्च क्षपकश्रेण्यामारोह कश्चाविरतदेशप्रमत्ताप्रमत्तविरता10 नामन्यतमो विशुध्यमानाध्यवसायः ॥
यथाख्यातसंयमलक्षणमाह
निष्कषायं चारित्रं यथाख्यातम् । इदमप्युशमश्रेणिमुपयातस्य कषायाणामुपशमादनुदयाच्चाऽन्तर्मुहूर्त्तस्थितिकम् | क्षपकश्रेणिमधिगतस्य तु कषायाणां सर्वथा क्षयाज्जघन्यतोऽन्तर्मुहूर्त्त स्थितिकालीनमुत्कृष्टतश्च देशो15 नपूर्वकोटिप्रमाणं बोध्यम् । आद्यं प्रतिपाति, द्वितीयमप्रतिपाति ॥
निष्कषायमिति । कषायरहितत्वे सति चारित्रत्वं लक्षणम् । सिद्धावस्थायां व्यभिचारवारणाय विशेष्यम् । उपशमेकक्षपकवृत्तित्वादस्यापि द्वैविध्यमिति मनसिकृत्याह - इदमपीति । एकादशगुणस्थानवर्त्तिनो हि सर्वथा कषायाणामुपशमनादुदयाभावाच्चाऽऽद्यमिदं यथाख्यातचारित्रं केवलमन्तर्मुहूर्त्तकालीनमुत्कृष्टतः, ततो नियमेन च्यवनादिति भावः । क्षपकश्रेण्या समाया20 तस्य तु द्वादशादिगुणस्थानवर्त्तिनः सर्वथा कषायाणां क्षयात्तादृशं चारित्रं द्वितीयं जघन्येनान्त
हूस्थितिमुत्कृष्टतो देशोनपूर्वकोटिप्रमाणं भवतीत्याह - क्षपकेति । तत्राद्यचारित्रस्य कषायसत्तासमानाधिकरणत्वात्तस्य च नियमेनोदयसंभवात् यस्माद्गुणस्थानाद्यया रीत्या समागतस्तथैव प्रतिपततीत्याशयेनाह - आद्यमिति । क्षपक श्रेणीतः कषायाणां सर्वथा क्षयेण प्रतिपाताभावो द्वितीयचारित्रवत इत्याह- द्वितीयमिति । इदमेव चारित्रं मोक्षाव्यवहितसाधनं सामायिकादयोऽप्य25 श्रागमने क्रमेण श्रेणिकल्पत्वादसाधारणकारणान्येव । गुप्यादयस्तु पञ्चविधचारित्र नैर्मल्यापादकतया परम्परयोपकारीभूता इति दिक् ॥
१. यथाख्यात चारित्रं द्विविधं छद्मस्थकेवलिस्वामिभेदात् छद्मस्थसम्बन्धि च द्विविधं मोहक्षयसमुत्थं, तदुपशमप्रभवं चेति । केवलिसम्बन्ध्यपि द्विविधं, सयोग्ययोगिकेवलिभेदादिति ॥