________________
: १८१ :
छेदोपस्थापनम् ]
न्यायप्रकाशसमलङ्कृ
लक्षणम् । छेदोपस्थापनादिवारणाय सत्यन्तम् । यतिधर्मान्तर्गत संयमस्तु सप्तदशविधश्चारित्रापेक्ष इति भेदः, अवद्यं गर्हितं पापं, सहावद्येन वर्तत इति सावद्यो योगः कायिकादिव्यापारः, सर्वेभ्यः सावद्ययोगेभ्यो विरमणं, रागद्वेषविरहितः समः तस्य - आयो गमनं, सर्वक्रियोपलक्षकमेतत् सर्वैव क्रिया हि साधोररक्तद्विष्टस्य निर्जर फलैव भवति । समाय एवेति विग्रहे स्वार्थे विनयादित्वाट्ठक्प्रत्यये सामायिकशब्द निष्पत्तिः । सर्वसावद्ययोगविरतिस्वरूपमेव 5 सामायिक, विशुद्धतराध्यवसायविशेषविशिष्टा तादृशविरतिरेव छेदोपस्थापनादिः । न च निवृत्तिपरत्वात्सामायिकस्य गुप्तित्वप्रसङ्ग इति वाच्यम्, योगप्रवृत्तेरत्र सद्भावात् न च प्रवृत्तिरूपत्वे समितित्वप्रसङ्ग इति वाच्यम् सामायिके चारित्रे, यतत एव समितिषु प्रवृत्त्युपदेशेन तत्कारणरूपत्वात् । तद्विभजते तदिति । अथेत्वरकालं लक्षयति भाविव्यदेशयोग्यमिति । भाविव्यपदेशयोग्यत्वे सति स्वल्पकालचारित्रत्वं लक्षणम् । प्रव्रज्याप्रतिपत्त्यनन्तरमधीतशस्त्रप्रतिज्ञाध्ययनादेश्छे - 10 दोपस्थाप्य संयमारोपणे क्रियमाणे सामायिकव्यपदेशविगमादिति भावः । छेदोपस्थापनादिवारणाय सत्यन्तम्, तथा च स्वल्पकालेति इत्वरशब्दार्थवर्णनपरमेव, न तु व्यावर्त्तकम् । इत्वरकालसंयतस्य छेदोपस्थाप्यचारित्रग्रहणादर्वाङ् मृतस्य चारित्रेऽव्याप्तिवारणाय योग्येति । क्वेदं चारित्रं भवतीत्यत्राह - प्रथमेति । यावज्जीवकालमाह - भाविव्यपदेशेति । इत्वरस्य हि भाविव्यपदेश उक्तो नेतरेषाम् । यस्तु भाविव्यपदेशं नाश्नुते यावज्जीवश्च भवति स संयमो 15 यावज्जीवकालिक इति भावः । सामायिक एव सन् चतुर्यामं चतुर्महाव्रतानि मनोवाक्कायैर्यः पालयन् यावज्जीवं वर्त्तते स यावज्जीवकालिकसामायिकसंयत इति यावत् । प्रव्रज्याप्रतिपत्तिकालादारभ्याऽऽप्राणप्रयाणकालमवतिष्ठत एवम्भूतं चारित्रमिति भावः यथाख्यातस्यापि भावि - व्यपदेशाभावेन यावज्जीवं संयमरूपत्वात्तद्व्युदासाय सामायिकत्वं वाच्यम्, सामायिकत्वं सामायिक पदव्यपदेशयोग्यत्वमित्यर्थस्तेन तस्यापि विशुद्धिविशेषविशिष्टनिरुक्तसामायिकत्वेऽपि 20 न क्षतिः । केषामयं संयम इत्यत्राह इदचेति । एषामुपस्थापनाया अभावादिति भावः ॥
छेदोपस्थापनमाख्याति -
पूर्व पर्यायोच्छेदे सत्युत्तरपर्यायारोपणयोग्यं चारित्रं छेदोपस्थापनम् । तच निरतिचारसातिचारभेदेन द्विविधम् । शैक्षकादेरधीत विशिष्टाध्ययन
१. भाविव्यपदेश योग्यताविशिष्टचारित्रस्यैवोपस्थापनायां त्यागो न चारित्रस्य तस्येदानीं विशुद्धतया तत्र सत्त्वात् तेन व्रतग्रहणकाले सामायिकं यावज्जीवं करोमीतीत्वर सामायिकस्य गृहीतत्वेऽपि उपस्थापनायां मुखतोऽपि न प्रतिज्ञालोपः, तस्यान्यथात्वाभावादित्याशयेन सामायिकव्यपदेशविगमादित्युक्तम् इत्वरसामायिकव्यपदेशविगमादिति भावः, तस्यैव प्रकृतत्वादिति ॥