________________
: १८२ : तस्वन्यायविभाकरे
[ सप्तमकिरणे विदो यदारोप्यते तन्निरतिचारम् । खण्डितमूलगुणस्य पुनर्वतारोपणं सातिचारम् । उभयमपि प्रथमान्तिमतीर्थकरतीर्थंकाल एव ॥ __ पूर्वपर्यायोच्छेद इति । सामान्यसामायिकपर्यायोच्छेदोत्तरकालं यद् विशुद्धतरसर्वसावद्ययोगविरत्यवस्थापन-विविक्तमहाव्रतारोपणं तद्योग्यं चारित्रं छेदोपस्थापनमि5 त्यर्थः । पूर्वपर्यायच्छेदेनोत्तरपर्यायारोपणयोग्यत्वे सति चारित्रत्वं लक्षणम् । सामायिकादि
वारणाय पूर्वपर्यायच्छेदेनेति पूर्वपर्यायश्च चारित्रस्यैव विज्ञेयः । अस्य विभागमाह-तच्चेति । निरतिचारस्वरूपमाह-शैक्षकादेरिति । आदिना तीर्थान्तरसंक्रामतो ग्रहणं तस्य हि चतुमहाव्रतधारिणः पञ्चमहाव्रतारोपणं भवति । सातिचारस्वरूपमाचष्टे-खण्डितेति । मूलगुण
हन्तुः पुनर्वतारोपणमित्यर्थः । उभयविधमपि छेदोपस्थापनं क भवतीत्यत्राह-उभयमपीति । 10 चारित्रमिदं भरतैरावतेष्वाद्यन्ततीर्थकरतीर्थयोर्भवति नान्यत्रेति भावः ॥
परिहारविशुद्धिकमाख्याति
तपोविशेषविशिष्टं परिशुद्धिमच्चारित्रं परिहारविशुद्धिकम् । तदपि निर्विशमानकं निर्विष्टकायिकश्चेति द्विविधम् । निर्विशमानकाः प्रक्रान्तचा
रित्रोपभोक्तारः, निर्विष्टकायिकाच समुपभुक्तप्रक्रान्तचारित्रकायिकाः । 15 एते चाऽऽद्यान्तिमतीर्थकरतीर्थकाल एव ।।
तपोविशेषेति । परिहरणं परिहारः प्राणिवधान्निवृत्तिस्तपोविशेषो वा तेन विशिष्टा शुद्धिर्यस्मिन् सत्परिहारविशुद्धिकमिति विग्रहः । अस्य भेदमाह तदपीति परिहारविशुद्धिकमपीत्यर्थः, निर्विशमानकं परिभुज्यमानकमित्यर्थः । निर्विष्टकायिकमुपभुक्तमित्यर्थस्तपोविशेषो
पभोगकालीनश्चारित्रमुपभुक्ततपोविशेषकालीनञ्चारित्रं चेति तद्विविधमिति भावः । तपोविशेष 20 सूचयितुं निरुक्तरूपेण तयोः स्वरूपमनुक्त्वा तदनुष्ठायिपुरुषस्वरूपनिरूपणद्वारा निरुक्तमपि
सूचयति-निर्विशमानकाश्चेति । प्रक्रान्तेति तपोविशेषसहकृतेत्यर्थः, एवमग्रेऽपि । अत्रेदम्बोध्यम्-उभयविधानामेषां तपो जघन्यमध्यमोत्कृष्टभेदेन त्रिविधमपि प्रत्येकं शीतकाल उष्णकाले वर्षाकाले च भवति तत्राऽतिरूक्षे ग्रीष्मकाल एकोपवासरूपं चतुर्थ जघन्यं, उपवा
सद्वयरूपं षष्ठं मध्यममुत्तमञ्चोपवासत्रयरूपमष्टमम् । ग्रीष्मतः किश्चित्सुकरे शिशिरे जघन्यं 25 षष्ठं मध्यममष्टममुत्कृष्टञ्चोपवासचतुष्टयरूपं दशमम् । साधारणे काले वर्षासु जघन्यमष्टमं
मध्यमं दशममुत्कृष्टञ्चोपवासपञ्चकरूपं द्वादशं तपो भवति, त्रिष्वपि कालेषु पारणे त्वाचाम्लं,
१. यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्राप्तौ ॥ ...