________________
:१८०: तत्वन्यायविभाकरे
[ सप्तमकिरणे मियमुत्तेजिका भवतीति भाव्यम् । अस्याः प्रकारभेदान् प्रकटयति-अनित्येति । एषामपि स्वरूपाणि सम्यक्चरणनिरूपणे प्रोच्यन्त इत्याह एतदिति ॥
अथ चारित्रलक्षणमभिधत्ते
कर्माष्टकशून्यताप्रयोजकमनुष्ठानं चारित्रम् । तच्च सामायिकच्छेदोप5 स्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातभेदेन पञ्चविधम् ॥
कर्माष्टकेति । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते तदिति चारित्रं कर्मसाधनं, अष्टविधकर्म द्रव्यक्षेत्रकालभवभावपरिवर्तनात्मकसंसारस्य कारणभूतं, तस्य या शून्यताऽऽत्यन्तिकी निवृत्तिः, तस्याः प्रयोजकं यदनुष्ठानं, बाह्याभ्यन्तरक्रियाविशेषोपरमसहचरितमनुष्ठानं
परस्परं प्रकर्षाप्रकर्षयोगिक्रियाविशेषरूपं तच्चारित्रमिति भावार्थः, तच्च संयतासंयतादिषु सूक्ष्म. 10 साम्परायिकान्तेषु प्रकर्षाप्रकर्षयोगि, वीतरागेषु परमोत्कृष्टं विज्ञेयम् । कर्माष्टकशून्यताप्रयो
जकत्वे सत्यनुष्ठानत्वं लक्षणम् । असदनुष्ठानव्यावृत्तये सत्यन्तम् । गुप्त्याद्यात्मधर्मविशेषेषु व्यभिचारवारणाय विशेष्यम् । गुप्त्यादयश्चारित्रप्रकर्षानुकूलाः, अत एव च कर्माष्टकशून्यत्व उपचाराद्धेतवः । यद्यपि समित्यादयः क्रियात्मकाः कर्मशून्यतायां प्रयोजकास्तथापि ते
चारित्रापेक्षिणः किश्चिदेव कर्म विरहयन्ति न सर्वाणि, चारित्रं तु कर्मणामष्टविधानामपि 15 विरहे प्रयोजकीभूतयोग्यतावदिति न कोऽपि दोषः । ननु यैः क्षुधादिभिः परिसहनीयैरक्षुब्धा
विपश्चितोऽभिनवानि कर्माणि नोपचिन्वन्ति पूर्वप्रचितानि च निर्जरयन्ति ततः कर्मनिर्जरणार्थमाहितसामर्थ्य चारित्रं चारित्रमोहनीयोपशमक्षयक्षयोपशमलक्षणात्मविशुद्धिलब्धिसामान्यापेक्षयक, प्राणिपीडापरिहारेन्द्रियदर्पनिग्रहशक्तिभेदाद् द्विविध, उत्कृष्टमध्यमजघन्यविशु
द्धियोगात्रिविधं, विकलज्ञानविषयकसरागवीतरागसकलावबोधगोचरसयोगायोगविकल्पाच20 तुर्विधमेवं सामायिकादिभेदेन पञ्चविधमपि, तत्र स्फुटावबोधार्थ पञ्चधैव विभजते तश्चेति ।।
अथ सामायिक लक्षयति
छेदोपस्थापनादिचतुष्टयभिन्ना सर्वसावद्ययोगविरतिः सामायिकम् । तद्विविधम् । इत्वरकालं यावज्जीवकालश्चेति । भाविव्यपदेशयोग्यं स्वल्प
कालं चारित्रमित्वरकालं । प्रथमान्तिमतीर्थकरतीर्थयोरेवैतत् । भाविव्य25 पदेशाभावेन यावज्जीवं संयमो यावज्जीवकालम् । इदश्च मध्यमद्वाविंशति तीर्थकरतीर्थान्तर्गतसाधूनां विदेहक्षेत्रवर्तिनाश्च ॥
छेदोपस्थापनादीति । छेदोपस्थापनादिचतुष्टयभिन्नत्वे सति सर्वसावद्ययोगविरतित्वं