________________
न्यायप्रकाश समलङ्कृते
: १७९ :
योश्चर्यानिषद्ययोश्चैकत्रैकदाऽसम्भवात् जघन्यतस्त्वेक एव । एवमसंकल्पोपस्थितान् क्षुधादीन् सहमानस्यासं क्लिष्टचेतसो रागादिपरिणामास्रवाभावान्महान्संवरो भवतीति ॥
भावनाः ]
निरूपितेषु समितिगुप्तिपरीषहेषु चतुर्थं संवर हेतुं यतिधर्ममाचष्टे -
मोक्षमार्गानुकूलयतिप्रयत्नो यतिधर्मः । स च क्षान्तिमार्दवार्जवनिलभतातपस्संयम सत्यशौचाकिञ्चन्य ब्रह्मचर्य भेदाद्दशविधः । एतल्लक्षणा- 5. न्यग्रे वक्ष्यन्ते ॥
मोक्षमार्गेति । मोक्षमार्गानुकूलत्वे सति यतिप्रयत्नत्वं लक्षणम् । क्षमादिसमुदयस्य संवरधारकत्वाद्धर्मत्वं तच्चागारिधर्मेऽपि, अतो यतीत्युक्तमनेन तस्यालक्ष्यत्वं ख्यापितम्, यतिधर्म इत्युक्तत्वाद्यतिस्वरूपरक्षकचारित्र व्युदासः, सति हि चारित्र उत्तमधर्मप्रवृत्तिर्भवेत्, तत्र गुप्तिः प्रवृत्तिनिग्रहाय, तत्रासमर्थानां प्रवृत्तिनिग्रहोपायदर्शनाय समितयः, मोक्षमार्गा- 10 त्सम्यग्दर्शनादितोऽच्यवनार्थं क्षमाद्यर्थञ्च परीषहाः, प्रमादनिवृत्त्यर्थं यतिधर्माः, परीषहानुकू - लतया भावनाः, कर्मनिर्जरणार्थ चारित्राणीति विज्ञेयम् । तथा च प्रमादनिवृत्तिद्वारा यतिधर्मस्य मोक्षमार्गानुकूलत्वमवसेयम् । यद्यपि सर्व एव गुप्त्यादयः कर्मनिर्जरणार्थाः, तथापि चारित्रे सति तथा, अतश्चारित्रस्यैव तत्र प्राथमिक हेतुत्वमुक्तम् । स कतिविध इत्यत्राह -- स चेति । अग्रे वक्ष्यन्त इति सम्यक्चरणनिरूपण इत्यर्थः ॥
15
ननु क्रोधाद्यनुत्पत्तिः क्षमादिविशेषगुणानामवलम्बनाद्भवति तत्र कस्मात्क्षमादीनामवलम्बन मित्याशङ्कायामाह -
मोक्षप्रवृत्त्युत्तेजक चिन्तनं भावना । अनित्याशरणसंसारकत्वान्यः त्वाशुचित्वाऽऽश्रवसंवरनिर्जरालोकस्वभावबोधिदुर्लभधर्मखाख्यात भेदादू द्वादशधा सा । एतल्लक्षणान्यप्यग्रे वक्ष्यन्ते ॥
मोक्षप्रवृत्तीति । मोक्षप्रवृत्तौ मोक्षानुकूलप्रवृत्तौ उत्तेजकं प्रतिबन्धकसमवधानकालीनकार्यजनकं यच्चिन्तनं-अनित्यत्वादिरूपेण द्वादशधाऽनुचिन्तनं सा भावनेत्यर्थः । मोक्षानुकूलप्रवृत्तेजकत्वे सति चिन्तनत्वं लक्षणम् । असत्प्रवृत्तिचिन्तनव्युदासाय सत्यन्तम् । समित्यादौ स्थितस्यापि कदाचिद्रव्यक्षेत्रकालभावेभ्यो मोक्षप्रवृत्तेर्मालिन्यतायां संजाताया
१. सापेक्षनिरपेक्षत्वाभ्यामयं मुनि सम्बन्ध्यनुष्ठान विशेषो द्विविधः, गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां पालयति तस्य धर्मस्सापेक्षो गच्छवासलक्षणः, इतरस्तु निरपेक्षस्य जिनकल्पादिलक्षणः, तत्र सापेक्षयतिधर्मा मूलोता भाव्याः ॥
20