________________
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे मलपरीषहः स्यादिति भावः । लक्षणं स्पष्टम् । अस्यापि मलस्य वेदनीयोदयप्रयुक्तत्वं निखिलगुणस्थानसम्भवित्वं विज्ञेयम् । एषां रोगतृणस्पर्शमलपरीषहाणां वेदनीये सति चारित्रमोहनीयक्षयोपशमजन्यत्वमित्याह-वेदनीयक्षयोपशमजन्या इति, वेदनीये सति चारित्रमोहनीयक्षयोपशमादिजन्या इत्यर्थः ॥ सत्कारपरीषहं वक्ति-भक्तजनेति । भक्तजनैरनुष्ठिता 5 भक्तपानवस्त्रपात्रादिभिः कृतास्सत्काराः, सद्भूतगुणोत्कीर्तनवन्दनाभ्युत्थानासनप्रदानादिव्यव
हाराश्च, एभिर्न मानमुद्वहेत, नोत्कर्षाद्याकुलं चेतः कुर्यात् , अकृते वा सत्कारादौ न विषादमुपयायात् ततश्च सत्कारस्य परिसहनं स्यादिति भावः । भक्तजनानुष्ठितसत्कारसम्बन्धिगर्वपराङ्मुखत्वं लक्षणम् । भक्तजनानुष्ठितेति स्वरूपविशेषणं, प्रज्ञापरीषहादिवारणाय सम्ब
न्ध्यन्तम् । सत्कारसम्बन्धिमानस्य चारित्रमोहनीयोदयप्रयुक्ततया नवमगुणस्थानं यावत्सम्भ10 वेन तत्क्षयोपशमजन्यस्तत्परीषह इत्याहायश्चेति ॥ अथ सम्यग्ज्ञानात्मकमोक्षमार्गाच्यवन
फलकं प्रज्ञापरीषहमाचष्टे-बुद्धिकुशलत्वेऽपीति । बुद्ध्यतिशयप्राप्तौ हि न गर्वमुद्वहेत् , प्रज्ञाप्रतिक्षेपेणाप्यबुद्धिकत्वेन परीषहो भवति, नाहं किञ्चिजाने मूर्योऽहं सर्वैः परिभूत इत्येवं परितापमुपागतस्य कर्मविपाकोऽयमिति मत्वा तदकरणात्तजयो भवतीति भावः । विज्ञान
प्रयुक्तमदनिरासत्वं लक्षणम् । सत्कारपरीषहवारणाय विज्ञानप्रयुक्तति । एतादृशप्रज्ञाया 15 ज्ञानावरणक्षयोपशमतन्त्रत्वेन द्वादशगुणस्थानं यावत्सम्भवात्- तत्क्षयोपशमे सति माना
भावजन्यत्वं तस्य परीषहस्येत्याविष्करोति ज्ञानावरणेति ॥ अज्ञानपरीषहमाह-बुद्धिशून्य त्वेऽपीति । बुद्धिस्सोपाङ्गं चतुर्दशपूर्वैकादशाङ्गरूपं श्रुतं तद्वैधुर्येण मनोमालिन्यं न विदध्यात् केवलं ज्ञानावरणोदयविजम्भितमेतत् स्वकृतकर्मपरिभोगतस्तपोऽनुष्ठानतोवापैतीति भाव.
यतोऽज्ञानस्य जयो भवेदिति भावः । बुद्धिशून्यताप्रयुक्तखेदापरिग्रहत्वं लक्षणम् , अज्ञानस्य 20 ज्ञानावरणोदयविलसितत्वेन यावद् द्वादशगुणस्थानं संभवात्तत्क्षयोपशमतस्तद्विजय इत्याह
ज्ञानावरणेति ॥ अथान्तिमं सम्यक्त्वपरीषहमभिधत्ते-इतरदर्शनेति, दर्शनान्तरीयाणां चमत्कारादिदर्शनेऽपि निजदेवतासामीप्याभावेऽपि वा जैनधर्मश्रद्धातस्सर्वथाऽविचलनमित्यर्थः । इतरदर्शनचमत्कारस्वदेवतासान्निध्याभावान्यतरप्रयुक्तजैनधर्मश्रद्धाशैथिल्याभाववत्त्वं
लक्षणम् । अश्रद्धाया दर्शनमोहनीयोदयप्रयुक्तत्वेन यावन्नवमगुणस्थानं सम्भवात् तत्क्षयोप25 शमजन्यस्तजय इत्याह-दर्शनेति । आवश्यके तत्त्वार्थे चाऽत्राऽसम्यक्त्वपरीषहं अदर्शन
परीषहाभिधं पठन्ति ॥जेया क्षुधादय एते उत्कृष्टत एकत्र प्राणिनि विंशतिर्वर्त्तन्ते, शीतोष्ण
१. नपुंसकवेदाद्युपशमकालेऽनिवृत्तिबादरसम्परायो भवति, तच्छमनावसरे च सतो दर्शनमोहस्य प्रदेशत उदयोऽस्ति न तु सत्त्व, ततस्तत्प्रत्ययस्सम्यक्त्वपरीषहस्तस्यास्ति, सूक्ष्मसम्परायस्य तु मोहसत्त्वेऽपि न सूक्ष्मोऽपि तदुदयः, ततो न तन्निमित्तकपरीषहसम्भव इति भावः ॥