________________
S
परोषहाः ]
न्यायप्रकाशसमलङ्कृते विषादानवलम्बनत्वमुक्तम् । अलाभस्य लाभान्तरायोदयनिबन्धनत्वाद्यावद्द्वादशगुणस्थानं सम्भवेन तत्क्षयोपशमादस्य परीषहस्यावतार इत्याह लाभान्तरायेति । रोगपरीषहमाचष्टे-रोगोद्भव इति । ज्वरातिसारकासश्वासादिमहद्रोगोद्भवेऽपि गच्छनिर्गता जिनकल्पिकादयश्च न चिकित्साविधापने प्रवर्त्तन्ते, किन्तु सम्यगेव तदधिसहन्ते स्वकृतकमणः फलमिदमुदितमिति चिन्तयन्तः । गच्छवासिनस्त्वल्पबहुत्वालोचनया सम्यक्सहन्ते, 5 प्रवचनोक्तेन वा विधिना चिकित्सामपि कारयन्ति, एवञ्च रोगजयः स्यादिति भावः । यथाशास्त्रानुष्ठानमुद्भूतरोगसहनत्वन्तु लक्षणम् । सर्वथा चिकित्सावैधुर्यमेव कार्यमिति नियमाभावसूचकं यथाशास्त्रानुष्ठानमिति पदम् , तच्च सम्यक्पदेन लभ्यते । वेदनीयोदयप्रयुक्तत्वेन रोगस्याखिलगुणस्थानेषु सम्भवोऽवसेयः ॥
तृणस्पर्शपरीषहमाह
जीर्णशीर्णसंस्तारकाधस्तनतीक्ष्णतृणानां कठोरस्पर्शजन्यक्लेशसहनं . तृणस्पर्शपरीषहः । शरीरनिष्ठमलापनयनानभिलाषो मलपरीषहः । वेदनीयक्षयोपशमजन्या एते । भक्तजनानुष्ठितातिसत्कारेऽपि गर्वपराङ्मुखत्वं सत्कारपरीषहः। अयश्च चारित्रमोहनीयक्षयोपशमजन्यः । बुद्धिकुशलत्वेऽपि मानापरिग्रहः प्रज्ञापरीषहः । ज्ञानावरणक्षयोपशमजन्यः। 15 बुद्धिशून्यत्वेऽप्यखिन्नत्वमज्ञानपरीषहः । ज्ञानावरणक्षयोपशमजन्यः। इतरदर्शनचमत्कारदर्शनेऽपि स्वदेवतासान्निध्याभावेऽपि जैनधर्मश्रद्धातोऽविचलनं सम्यक्त्वपरीषहः । दर्शनमोहनीयक्षयोपशमजन्योऽयम् ॥
जीर्णशीर्णेति । गच्छनिर्गतानां गच्छवासिनाश्च यतीनामशुषिरतृणस्य हि दर्भादेः परिभोगोऽनुज्ञातः, तत्र येषां शयनमनुज्ञातं ते तान् दर्भान भूमावीषदार्द्रतादियुक्तायामास्तीर्य दर्भा- 20 णामुपरि संस्तारकोत्तरपट्टौ च विधाय शेरते, चौरापहृतोपकरणो वाऽत्यन्तजीर्णत्वात्प्रतनुसंस्तारकपट्टको वा तदुपरि शेते, तत्र च शयानस्य यद्यपि कठिनतीक्ष्णाग्रभागैस्तृणैरत्यन्तपीडा समुपजायते तथापि परुषदर्भादितृणस्पर्श सम्यक्सहेत, एवश्च सति तृणपरीषहस्स्यादिति भावः । वधपरीषहादिवारणाय तृणानामित्यन्तम् । वेदनीयोदयप्रयुक्तत्वेन तृणस्पर्शवेदनायाः .. निखिलगुणस्थानेषु सम्भवोऽवसेयः ॥ मलपरीषहं निरूपयति-शरीरनिष्ठेति । शरीरनिष्ठो 25 यो धर्माम्बुसम्बन्धजन्यो घनपरागबजः स्थिरतामापन्नो ग्रीष्मोष्मणा चार्द्रतां गतोऽत एव दुर्गन्ध उद्वेगकरश्च तस्यापनयनाय न कदापि जलाद्यवगाहनाभिलाषः कार्यः, सत्येवं
२३