________________
: १७४ :
तत्त्वन्यायविभाकरे
[ सप्तम किरणे
शतीनां जेयानां क्षुधादीनामवतारो यथायोगं भवति । एते पश्चैव परीषहा वेदनीये सतिं चारित्रमोहनीयक्षयोपशमादिजन्या इति न वाच्यमन्येषामपि भावात् किन्तु क्रमं परीषहाणामुद्दिश्यैत्रमुक्तमिति भावः ॥ अथावस्त्रपरीषहमाह - सदोषेति । उद्गमादिदोषविशिष्ट वस्त्रादिप रिहारेणेत्यर्थः । इदञ्चाल्पमूल्यानामल्पवस्त्राणां सदुष्टानामग्राह्यताज्ञापनाय । अल्पमूल्येति । 5 इदच निर्दुष्टबहुमूल्याल्पवस्त्रपरिग्रहव्युदासाय । अन्यथा परिग्रहादिदोष: प्रसज्येत । अल्पवस्त्रेति । इदञ्च निर्दुष्टाल्पमूल्यनिरर्थक बहुवस्त्र सङ्ग्रहनिराकरणाय । एवञ्च सर्वथा वस्त्रशून्यतायामेवाऽवस्त्रपरीषहत्वं निराकृतं । लक्षणं स्पष्टम् अस्य संभवो नवमगुणस्थानं यावत् । चारित्रमोहनीयस्य सम्भवात् । नाग्रिमगुणस्थानकेषु तत्र मोहनीयस्य क्षीणत्वादिति ॥ अरतिपरीषमभिधत्ते - अप्रीतीति । सूत्रोपदेशेन विहरतस्तिष्ठतो वा संयमविषयकधृति10 वैपरीत्यमुत्पद्यते एतादृशाप्रीतिप्रयोजकसंयोगसम्भवेऽपि सम्यग्धर्माराधनरतिमता भवितव्यं तथासत्यरतिविजयो भवेदिति भावः । अप्रीतिप्रयोजकसंयोगसमवधानाऽसमवधानकालीनसाम्यभावावलम्बनत्वं लक्षणम् । क्षुत्परीषहादिव्युदासाय कालीनान्तम् । नवमगुणस्थानं यावदियमरतिः । स्त्रीपरीषहमाह - कामबुद्ध्येति । कामबुद्ध्या स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टानां यद्विलोकनं चिन्तनं वा, ताभ्यां सर्वथा विरमणमित्यर्थः । काम15 प्रयुक्तस्त्र्याद्यङ्गप्रत्यङ्गादिचेष्टावलोकनचिन्तनप्रवृत्तिराहित्यं लक्षणम् । धर्मोपदेशबुद्ध्या रुयाद्यङ्गाद्यवलोकने दोषाभावात्कामबुद्ध्येत्युक्तम् । अवलोकनमात्रोक्तौ चिन्तनस्य, तन्मात्रोक्तौ चावलोकनस्य व्युदासासम्भवादुभयोर्ग्रहणम् । नवमगुणस्थानं यावत्कामबुद्ध्या स्त्र्याद्यङ्गाद्यवलोकनादिसम्भवः चारित्रमोहनीयोदयसम्भवात्, अग्रिमेषु स्थानेषु न संभवः मोहनीयस्य क्षपणादुपशमाद्वा तस्मादयं परीषश्चारित्रमोहनीये सति चारित्रमोहनीयक्षयोपशमजन्य 20 इत्यभिप्रायेणाह - एते चेति । अवस्त्रारति स्त्रीपरीषहाश्चेत्यर्थः । चारित्रमोहनीयक्षयोपशम जन्या इति यथाक्रमं जुगुप्साया अरतिमोहनीयस्य पुंवेदस्य च क्षयादुपशमाद्वा परीषहा एते भवन्तीति भावः ॥
7
चर्यापरीषहमाह —
एक निवासममत्व परिहारेण सनियमं ग्रामादिभ्रमणजन्यक्लेशादि25 सहनं चर्यापरीषहः । वेदनीयक्षयोपशमजन्योऽयम् । स्त्रीपशुपण्डकवर्जिते स्थाने निवासादनुकूलप्रतिकूलोपसर्ग सम्भवेऽप्यविचलितमनस्कत्वं निषयापरीषहः । चारित्रमोहनीयक्षयोपशमजन्योऽयम् । प्रतिकूलसंस्तारकवसतिसेवनेऽनुद्विग्नमनस्कत्वं शय्यापरीषहः । अयञ्च वेदनीयक्षयोपशमजन्यः ।