________________
परीषहाः ] न्यायप्रकाशसमलङ्कते
: १७५ : निर्मूलं समूलं वा स्वस्मिन् कुप्यत्सुजनेषु समतावलम्बनमाक्रोशपरीषहः। चारित्रमोहनीयक्षयोपशमजन्योऽयम् । परप्रयुक्तताडनतर्जनादीनां कायविनश्वरत्वविभावनया सहनं वधपरीषहः। वेदनीयक्षयोपशमजन्योऽयम् ।।
एकत्रेति । निस्संगतामुपगतस्य संयतस्य क्लेशक्षमस्य देशकालप्रमाणोपेतमध्वगमनमनुभवतो यानवाहनादिगमनमस्मरतस्सम्यग्व्रज्यादोषमुज्झतश्चर्यापरीषहो भवति, चर्या चरणं 5 द्विविधं द्रव्यतो भावतश्च, ग्रामानुग्रामविहरणं द्रव्यतश्चर्या, एकस्थानस्थस्याऽपि तत्र निर्ममत्वं भावतश्चर्या सैव परीषहः, एतदुभयप्रदर्शनायैकत्रनिवासममत्वपरिहारेणेत्युक्तम् । सनियममिति । एकरात्रं ग्रामे पञ्चरात्रं नगरेऽवस्थातव्यमित्यादिनियमपूर्वकमित्यर्थः । सर्वेषु गुणस्थानेषु प्रामादिभ्रमणजन्यक्लेशादिसम्भवो वेदनीयोदयादतश्चर्यापरीषहस्य वेदनीये सति चारित्रमोहनीयक्षयोपशमजन्यत्वमित्याशयमाविष्करोति वेदनीयेति ॥ निषद्यापरीषहं वक्ति-स्त्रीति। 10 निषीदन्त्यस्यामिति निषद्या स्थानं, स्त्रीपशुपण्डकविवर्जितम् , विदितसंयमतत्त्वस्य स्त्रीपश्वादिवर्जितस्थानवासिनोऽनुकूलप्रतिकूलोपर्गसम्भवेऽपि तत्प्रदेशादविचलतो मन्त्रविद्यादिप्रतीकाराननपेक्षमाणस्य प्रागनुभूतसुखास्तरणादिस्पर्शसुखमविगणयतोऽविचलितमनस्कत्वं निषधापरीषह इति भावः । नैषेधिकीति केचिदत्र पठन्ति, निषेधनं निषेधः पापकर्मणां गमना दिक्रियायाश्च प्रतिषेधः, स प्रयोजनं यस्यास्सा नैषेधिकी शून्यागारश्मशानादिका स्वाध्या- 15 यभूमिः, सैव परीषहो नैषेधिकीपरीषह इति व्याख्यायन्ति । अस्या निषद्याया यावनवमगुणस्थानं सम्भवः, अतश्चारित्रमोहनीयस्य क्षयोपशमतो जायतेऽयं परीषह इत्याहचारित्रेति ॥ शय्यापरीषहं निरूपयति -प्रतिकूलेति । संस्तारकपट्टकादीनां कठिनत्वादिप्रातिकूल्याद्वसतेश्च पांसूत्करादिप्रचुरत्वाद्वा पूर्वानुभूतनवनीतसंनिभमृदुशयनरतिमननुस्मरतोऽ. त्रानुद्विग्नमनस्कता शय्यापरीषह इत्यर्थः । प्रतिकूलसंस्तारकवसतिसेवनजन्योद्वेगराहित्यं 20 लक्षणम् । जन्यान्तं निषद्यापरीषहव्यावृत्तये । निषद्यापरीषहस्तूपसर्गजन्योद्वेगराहित्यरू- .. पोऽयचोच्चावचपांसूत्करप्राचुर्यजन्योद्वेगराहित्यरूप इत्यनयो वैषम्यमवसेयम् । वेदनीयोदयप्रयुक्तत्वाच्छय्याया निखिलेषु गुणस्थानेषु सम्भवस्समभावावलम्बनेन चारित्रमोहनीयक्षयोपशमतश्च तज्जयो जायत इत्याशयेनाह-अयश्चेति शय्यापरीषहश्चेत्यर्थः ॥ आक्रोशपरीषहं स्वरूपयति-निर्मूलमिति । आक्रोशनमनिष्टवचनमाक्रोशस्तस्य परीषहः परितस्सहनमाक्रोशप-5
१. चर्या हि प्रामादिषु सञ्चरणमतो विहाररूपा, निषद्या तु प्रामादिषु प्रतिपन्नमासकल्पादेः स्वाध्यायादिनिमित्तं शय्यातो विविक्तोपाश्रये गत्वा निषदनमिति अवस्थानरूपमित्यनयोर्विरोधः, चर्यायां वर्तमानो यदाs. निवृत्ततत्परिणाम एव विश्रामभोजनाद्यर्थमित्वरकालं शय्याया आसेव्यमानत्वात् न तया शय्याया विरोध इति बोध्यम् ॥ ... ... .