________________
परीषदाः ]
न्यायप्रकाशसमलङ्कृ
: १७३ :
सेवेत, एवमनुतिष्ठता शीतोपसहनं कृतं भवेदिति भावः । सर्वेषु गुणस्थानेषु शीतं सम्भवि || उष्णपरीषहमाचष्टे - प्रभूतेति । पटीयो नैदाघदिवाकर कर निकर सन्तप्त कलेवरस्य तृष्णानशनपित्तरोगधर्मश्र मार्दितस्य स्वेदशोषदाहाभ्यर्दितस्य जलावगाहनव्यजनवातावलेपनकदलीपत्राद्यासेवनविमुखस्य पूर्वानुभूतशीतलद्रव्यप्रार्थनापेतान्तरङ्गस्योष्ण वेदनाप्रतीकारक्रियानादरस्य चारित्रिणश्चारित्ररक्षणायोष्णता सहनमुष्णपरीषह इति भावः, प्रभूतोष्ण सन्तापेऽपि जलाव - 5 गाहनाद्यनासेवनत्वं लक्षणम् । चारित्रिकर्तृकत्वं सर्वत्र वाच्यमन्यथा पूजाद्यभिलाषिणाऽनुष्ठिततादृशानासेवनस्याप्युष्णपरी षहत्व प्रसक्तिः स्यात्, उष्णोऽयमखिलेषु गुणस्थानेषु सम्भवी ॥ दंशपरीषहं निर्वक्ति—
समभावतो दंशमशकाद्युपद्रवसहनं दंशपरीषहः । एते वेदनीयक्षयोपशमजन्याः । सदोषवस्त्रादिपरिहारेणाल्पमूल्याल्पवस्त्रादिभिर्वर्त्तनम - 10 वस्त्रपरीषहः । अप्रीतिप्रयोजकसंयोगसमवधाने सत्यपि समतावलम्बनमरतिपरीषहः । कामबुद्ध्या रुयाद्यङ्गप्रत्यङ्गादिजन्यचेष्टानामवलोकनचिन्तनाभ्यां विरमणं स्त्रीपरीषहः । एते च चारित्रमोहनीयक्षयोपशम
जन्याः ॥
"
समभावत इति । दंशमशक मत्कुणवृश्चिकादिक्षुद्र सवैर्बाध्यमानोऽपि निजकर्मविपाक - 15 मनुचिन्तयन्न तत्स्थानादपगच्छेत् न च तदपनयनाय धूमविद्यामंत्रौषधादीनि प्रयुञ्जीत, नवा व्यजनादिभिर्निवारयेत् तथा च दंशाद्युपद्रवजयस्स्यात्, समभावतो दंशाद्युपद्रव सहत्वं लक्षणम् | दंशाद्युपद्रवोऽपि निखिलेषु गुणस्थानेषु सम्भवति । एषां क्षुधादीनां पञ्चानां वेदनीयोदये समवतारात् तेषां जयाश्चारित्रमोहनीयक्षयोपशमादिजन्या इत्याहैत इति, वेदनीये सति क्षयोपशमजन्याः, अर्थात् चारित्रमोहनीयक्षयोपशमादिजन्या इत्यर्थः, सहनस्य चारित्र - 20 रूपत्वादिति भावः, एवमग्रेऽपि । उक्तञ्च भगवतीटीकायां " एतेषु पीडैव वेदनीयोत्था, तदधिसहनन्तु चारित्रमोहनीयक्षयोपशमादिसम्भवमधिसहनस्य चारित्ररूपत्वादिती ” ति, सहनस्य केवलं चारित्रमोहनीय क्षयोपशमादिजन्यत्वेन वेदनीयचारित्रावरणक्षयोपशमजन्या इत्यनुक्त्वा केवलं वेदनीयक्षयोपशमजन्या इत्युक्तं, क्षुधादौ तज्जये च कारणप्रदर्शनाय तथोपन्यासः कृतः । ज्ञानावरणवेदनीयमोहनीयाऽन्तरायात्मकप्रकृतिचतुष्टयोदय एव द्वाविं- 25
,"
९. यद्यपि शीतोष्णयोरे कदै कत्रासम्भवस्तथापि आत्यन्तिके शीते तथाविधाग्निसन्निधौ च युगपदेवैकस्य पुंसस्सम्भवतस्त, एकदिगवच्छेदेन शीतस्यापर दिगवच्छेदेनोष्णस्य सम्बन्धादिति नाशक्यम्, कालकृतशीतोष्णयोरेवाश्रयणात् तयोर्योगपद्यासम्भवात् एवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति बोध्यम् ॥