________________
तस्वन्यायविभाकरे
[ सप्तमकिरणे शास्त्रीयाः प्रदश्यन्ते उपसर्गेति, उपसर्गा देवादिकृतोपद्रवाः परीषहा अग्रे वक्ष्यमाणाः क्षुधादयः, तेषां भावेऽभावे वा स्वीये शरीरे यन्नरपेक्ष्यमभिमानाभावस्सा कायगुप्तिरित्यर्थः, सति ह्यभिमाने तद्वारणायासती कायचेष्टा स्यादेवेति नियमभङ्गस्यादिति भावः। अपरमपि नियममाह-योगेति । योगः शरीरवाङ्मनोरूपस्तस्य निरोद्धः केवलिनः कायोत्सर्गभाजो वा 5 यस्सर्वथा कायचेष्टापरिहारस्साऽपि कायगुप्तिरित्यर्थस्तदुक्तम् ' कायक्रियानिवृत्तिः कायोत्सर्गे
शरीरगुप्तिस्स्या'दिति । यद्यपि कायव्यापारो मनोव्यापारसंसृष्ट एव, तथापि कायचेष्टायास्सा. क्षात्कायेनैव निष्पादितत्वात् बहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा ॥ वाग्गुप्तेस्वरूपमाह-अर्थवदिति । न केवलं वचोनियमनमानं वचोगुप्तिः, सार्थकभ्रूविकारादिसहितवचो
नियमस्य वाग्गुप्तित्वापत्तरित्यत आहार्थवदित्यादि । कस्मैचित्प्रयोजनाय कृतैर्धविकारादिस10 केतैहुंकारादिप्रवृत्तिभिश्च रहितमित्यर्थः । आयेनादिना नेत्रमुखकरादिनर्तनस्य, द्वितीयेन च
शरलोष्टोत्क्षेपादेग्रहणम् । यद्वा शास्त्रानुसारिभाषणमपि वाग्गुप्तिर्भवतीत्याह-शास्त्रविरुद्धभाषणशून्यमिति । ननु शास्त्रविरुद्धभाषणशून्यमित्यनेन शास्त्रानुसारिभाषणरूपवचोलाभेन योगनिरोद्धस्सर्वथा मौनरूपायां गुप्तौ लक्षणमिदमव्याप्तमतिव्याप्तश्च भाषासमितावित्यत्राह
अनेनेति । तथा च नियमनशब्दस्य शास्त्रानुसारिवचनेऽवचने च रूढत्वेन नाव्याप्तिः । 15 सम्यग्भाषणश्चेति । सम्यगुपयुक्तस्य लोकागमाविरोधेन भाषणमित्यर्थः, ननु भाषासमिती
कथमतिव्याप्तिपरिहार इत्यत्राह-भाषासमिताविति । एवशब्देनाभाषणस्य व्युदासः । भाषणाभाषणरूपत्वाद्वारगुप्तेर्भाषणमात्रस्वरूपभाषासमित्यपेक्षया वैलक्षण्यं व्यापकत्वं चात एव शास्त्रानुसारिभाषणरूपमित्यनुक्त्वा शास्त्रविरुद्धभाषणशून्यमित्युक्तम् । उक्तञ्च 'अनृता
दिनिवृत्तिर्वा मौनं वा भवति वाग्गुप्ति' रिति ।। अथ मनोगुप्तिमाह-सावद्येति । अवयं 20 गर्हितं पापं तेन सहितो यस्संकल्पश्चिन्तनमातरौद्रध्यायित्वं चित्तचाश्चल्यं वा तस्य निरो
धोऽकरणमित्यर्थः । सावद्यसंकल्पनिरोधत्वं लक्षणम् , अनेन च निरवद्यसंकल्पस्सरागसंयमादौ, संसारहेतौ च संकल्पनिरोधश्च मनोगुप्तिरिति लभ्यते । न सर्वथा मनोनिरोधोऽ सम्भवात् योगनिरोधावस्थामन्तरेण तदसम्भवात् ।।
अथ समितिगुत्योस्संवरहेतुत्वमभिधायानन्तरोद्दिष्टस्य परीषहस्य स्वरूपमुपदर्शयति25 प्रतिबन्धकसमवधाने सत्यपि समभावादविचलनं परीषहः॥
प्रतिबन्धकेति । समन्तादापतितेषु सविधिभक्तपानाद्यलाभादिषु समभावाद् वैगुण्यमनवलम्ब्याविचलनं निष्प्रकम्पचित्ततयाऽवस्थानं परीषह इत्यर्थः । परिपूर्वात्सहेर्भावेऽकारः परिषहणं परीषहः, क्षुधादिजय इत्यर्थः । न तावदच्प्रत्ययः पचादिनिबन्धनः कर्तरि तस्य