________________
परीषहाः ]
न्यायप्रकाशसमलङ्कते विधानात् । न कर्मसाधनो घञ्, सहेरुपधावृद्धिप्रसङ्गात् , नाऽपि पुंसि संज्ञायां घः, तस्य करणाधिकरणयोर्विधानात् । प्रतिबन्धकसमवधानेऽपि साम्यतया क्षुधादिजन्यदुःखसहनत्वं लक्षणम् । क्लेशेन दुःखसहनस्य परीषहत्वाभावात्साम्यतयेति । परीषहपदवाच्यानां क्षुधादिजयानामात्यन्तिकनिवृत्तिसाधनसम्यग्दर्शनादितोऽच्यवनं कर्मनिर्जरणश्च प्रयोजनम् । तत्र परीषहाः सोढव्याश्च नैगमसंग्रहव्यवहारर्जुसूत्रनयेनाविरतदेशविरतविरतानां भवन्ति, त्रया- 5 णामपि परीषहवेदनीयासातादिकर्मोदयजनितस्य क्षुधादेस्तत्सहनस्य च यथायोगं सकामाकामनिर्जरहेतोस्सम्भवात् । शब्दसमभिरूद्वैवम्भूतानां मतेन विरतस्यैव भवन्ति निरुपचरितपरीषहशब्दवृत्तेस्तत्रैव सम्भवात् । उत्पादकमेषां द्रव्यं नैगमनयेन जीवो जीवाः, अजीवोsजीवाः, जीवाजीवौ, जीवा अजीवः, जीवोऽजीवाः, जीवा अजीवाश्चेत्यष्टौ। संग्रहनये जीवोऽजीवो वा, न द्वित्वबहुत्वे । व्यवहारेऽजीव एव, शेषाणां मतेन जीव एव परिषयमा- 10 णस्यैव परीषहत्वात्परिषहणस्योपयोगात्मकस्य जीवस्वाभाव्येन जीवद्रव्यत्वात् । गुणसंहतिरूपस्यैव द्रव्यत्वाच्च । तत्तल्लक्षणनिरूपणावसरे कर्मप्रकृतयः पुरुषाश्च वक्ष्यन्ते । एषणीयस्य अनेषणीयस्य चाग्रहणात् ग्रहणे वाऽपरिभोगात् नैगमसङ्ग्रहव्यवहाराणां मतेन सहन भवति, स्थूलदर्शिनामेषामन्नादिपरिहारस्यैव क्षुधादिसहनत्वेनेष्टत्वात् , शेषाणां मतेन तु नाभुञ्जानस्यैव तत्सहनमपि तु प्रासुकमन्नादिकल्प्यञ्च गृह्णतो भुञ्जानस्याऽपि भवति भाव- 15 प्रधानत्वात् । यदाश्रित्य क्षुधादिर्भवति तद्वस्त्वेव परीषह इति नैगमः, क्षुधादिजनिता वेदना तदुत्पादकञ्च परीषह इति सङ्ग्रहव्यवहारौ, वेदनां प्रतीत्य जीवे परीषह इति ऋजुसूत्रः, परीषहोपयुक्त आत्मैव परीषह इति शब्दसमभिरूडैवम्भूताः । एकजीवापेक्षया जघन्योत्कृष्टत एषां वर्तनाऽग्रे वक्ष्यते । नैगमसङ्ग्रहव्यवहाराणां मतेन वर्षलक्षणं कालमाश्रित्य परीषहो भवति उत्पादकवस्तूनामपि परीषहत्वोक्तेः, ऋजुसूत्रमतेऽन्तर्मुहूर्त, वेदनाया उपयो- 20 गात्मिकायास्तावन्मानत्वात् । शब्दादिनयमतेन एकस्समयस्तन्मतेनोपयोगात्मकपर्यायस्य प्रतिसमयमन्यान्यत्वात् ॥
...परीषहभेदश्च सम्बन्धितया कतिविध इत्याशङ्कायां तं विभजते• “स चक्षुत्पिपासाशीतोष्णदंशावस्त्रारतिवनिताचर्यानषेधिकशय्याऽऽ
१. चपेटादिना पुरुषेणोदीरितत्वाज्जीवो निमित्तं, बहुभिस्तथात्वे जीवाः, जीवप्रयोगरहितेन गृहपाताद्यचेतनेनोदीरितत्वादजीवः, बहुभिरजीवैस्तथात्वेऽजीवाः, लुब्धकेन बाणादिना तथात्वे जीवाऽजीवौ, अनेकैः पुरुषैरेकेन शिलादिना तथात्वे जीवा अजीवश्च, लुब्धकैरनेकैर्बाणादिभिस्तथात्वे जीवोऽजीवाश्च, बहुभिर्छधकैबहुभिर्वाणादिभिस्तथात्वे तु जीवा अजीवश्चेति भावः । न द्वित्वबहुत्वे इति, सामान्यग्राहित्वादस्य नयस्येति भावः । अजीव एवेति, कर्मण..एव कारणत्वात्तस्यैव च सर्वजनप्रतीतिनिमित्तत्वादिति भावः ॥...,
-
-