________________
न्यायप्रकार
गुप्तिनि० ] हुंकारादिप्रवृत्तिरहितं शास्त्रविरुद्ध भाषणशून्यं वचोनियमनं वाग्गुप्तिः । अनेन सर्वथा वानिरोधस्सम्यग्भाषणञ्च लभ्यते। भाषासमितौ सम्य. ग्भाषणमेव । सावद्यसंकल्पनिरोधो मनोगुप्तिः॥
. योगस्येति । कायवाङ्मनोरूपस्य योगस्य ये सन्मार्गगमनोन्मार्गगमननिवारणे ताभ्यामात्मसंरक्षणं गुप्तिरित्यर्थः । योगसम्बन्धिसन्मार्गोन्मार्गप्रवृत्त्यप्रवृत्तिप्रयुक्तात्मसंरक्षणत्वं 5 लक्षणं, तेन वाचि मनसि च गमनागमनयोरसत्त्वेन नाव्याप्तिशङ्का । रागद्वेषापरिणतपुरुषकर्तकत्वमपि निवेशनीयम् , तेन निबिडबन्धनबद्धतस्करादिकर्त्तकयोगसम्बन्धिनिग्रहस्य व्युदासः। योगानां सर्वथा निरोधस्तत्प्रवृत्तिद्वारा मुक्तिमार्गानुकूलपरिणामो वा गुप्तिरिति ध्येयम् । सर्वथा कायादिचेष्टानिरोधस्यापत्र विवक्षितत्वेन गुप्तेापकत्वान्न व्याप्येर्यासमित्यादावतिव्याप्तिशङ्कासम्भवः, परिमितकालविषयस्सर्वयोगनिग्रहोऽपि गुप्तिस्तत्रास- 10 मर्थस्य कुशलेषु प्रवृत्तिस्समितिरिति भेदात् । तस्या विभागमाचष्टे सा चेति । तत्र कायगुप्तिं निरूपयति शयनेति । शयनादिविषयककायक्रियानियमत्वं लक्षणं, नेत्रपरिस्पन्दादिस्वाभाविकक्रियायाः कुतूहलेन कृतस्य नियमस्य वारणाय शयनादिविषयकेति । शयनादिविषयकमानसिकनियमवारणाय कायक्रियेति । उच्छृखलपुरुषानुष्ठितशयनादिविषयकनियमवारणाय नियमपदेन शास्त्रीयो नियमो ग्राह्यः । तथा च निशीथिनीप्रथमयामा- 15 दनन्तरं गुर्वनुज्ञानात्सप्रमाणायां वसतौ स्वावकाशनिरीक्षणप्रमार्जनपूर्वक संस्तरणपट्टद्वयमास्तीर्य सपादं कायमूर्ध्वमधश्च प्रमृज्यानुज्ञापितसंस्तारकावस्थानोऽनुष्ठितसामायिकविधिमिबाहूपधान आकुंचितजानुस्ताम्रचूडवद्विहायसि प्रसारितजङ्घः प्रमार्जितपृथ्वीतलन्यस्तपादो षा संकोचसमये भूयः प्रमार्जितसन्देशक उद्वर्तनकाले च रजोहरणेन प्रमृष्टकायो नात्यन्त. तीब्रनिद्रश्शयीत । यत्र भुवि विवक्षितमासनं तत्रावेक्षणप्रमार्जने विधाय बहिर्निषद्यामास्तीर्य 20 निविशेत, निविष्टोऽप्याकुश्चनप्रसारणादिकं पूर्वेणैव विधिना कुति, वर्षादिषु च वृसिकापीठिकादिकमनेनैव विधिनावेक्ष्य प्रमृज्य च तत्र संनिवेशनं कुर्वीत । दण्डकोपकरणचेष्टाभोजनादिविषयौ निक्षेपादानावपि वीक्षणप्रमार्जनपूर्वको निर्दुष्टौ स्याताम् । गमनमपि प्रयोजनवतो युगमात्रप्रदेशविन्यस्तदृष्टेर्जीवपरित्यागेन मन्दं मन्दं पदं न्यसतः प्रशस्तं स्यादित्यादिरूपाः कर्त्तव्याकर्त्तव्यविषयाश्शास्त्रीया व्यवस्था अवगन्तव्याः, एवमन्येऽपि नियमाः 25
१. गुप्तापकत्वञ्च यस्समितस्स नियमाद्गुप्तः, गुप्तयो हि प्रतीचाराप्रतीचारोभयरूपाः प्रतीचारो नाम कायिको वाचिको व्यापारः, तथा च यस्समितः सम्यग्गमनभाषणादिचेष्टायां प्रवृत्तस्स गुप्तोऽपि भवति । यस्तु कायवाचौ निरुध्य शुभं मन उदीरयन् धर्मध्यानाद्यपयुक्तचित्तो भवति स गुप्त उच्यते न तु समितः केवलाप्रतीचार रूपत्वात्तस्येति बोध्यम् ॥
२२