________________
तत्वन्यायविभाकरे
( सप्तमकिरणे गमने व्यभिचारवारणाय स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सतीत्युक्तम् ।। भाषासमितेलक्षणमाह-कर्कशादीति । हितं स्वस्य परस्य वा मोक्षपदप्रापणसमर्थ, मितमनर्थकबहुप्रलपनशून्यं प्रयोजनमात्रसाधनं वचनं, अनवद्यं जीवनिकायानामनुपघातकं, असंदिग्धं स्फुटार्थ व्यक्ताक्षरं वा, अभिद्रोहशून्यं क्रोधमायालोभैरयुक्तं, एवंविधं कर्कशादिदोषशून्यश्च भाषणं भाषासमितिरित्यर्थः । अहितामितावद्यसंदिग्धादिवचनवारणाय तत्तत्पदग्रहणमवसेयम् । एषणासमितिमाचष्टे-सूत्रेति । आगमानुसारेणाशनखाद्यस्वाद्यभेदभिन्नस्यान्नस्य, आरनालतण्डुलक्षालनादेरुद्गमादिदोषपरिशुद्धस्य पानस्य, रजोहरणादिचतुर्दशविधोपधीनां स्थविरकल्पयोग्यानां जिनकल्पयोग्यानां द्वादशविधानां आर्थिकायोग्यानां
पञ्चविंशतिविधानामुपधीनां गवेषणैषणासमितिरित्यर्थः। सूत्रानुसारेणेत्यनेन दोषवर्जनम10 भिमतं, तत्राधाकौंदेशिकादिषोडशगृहस्थहेतुका उद्गमदोषाः, धात्रीपिण्डदूतीपिण्डादि
षोडशसाधुजन्या उत्पादनादोषाः, उभयजन्याश्च शङ्कितम्रक्षितादयो दशैषणा दोषाः, एभिर्दोष रहिता अन्नादयः श्रुतचरणधर्मसाधकाः । तथा चोद्गमादिदोषरहितान्नादिपदार्थान्वेषणमेषणासमितेर्लक्षणम् । वनीपककर्तृकभक्ताोषणायां व्यभिचारनिरासायोद्गमादि
दोषरहितेति ॥ आदाननिक्षेपणासमितिमाख्याति–उपधीति । उपधयश्चतुर्दशविधा द्वादश1 विधाः पञ्चविंशतिविधाश्च, प्रभृतिपदेन पीठफलकाद्यौपग्रहिकोपकरणानां ग्रहणं, एतेषामुप
योगाय निरीक्ष्य स्थिरतरं प्रमृज्य च रजोहरणेन ग्रहणस्थापनारूपा क्रिया आदाननिक्षेपणासमितिरित्यर्थः । निरीक्षणप्रमार्जनपूर्वकोपधिविषयग्रहणस्थापनात्मकक्रियात्वमस्या लक्षणम् , उदासीनपुरुषकृतोपधिविषयकग्रहणस्थापनात्मकक्रियावारणाय निरीक्षणप्रमार्जनपूर्वकेति ॥ उत्सर्गसमितिस्वरूपप्रकाशनायाऽऽह-जन्तुशून्येति । स्थावरजङ्गमजन्तुशून्यायां परिशोधितभूमावुज्झितव्यवस्तुयोग्यायां विधिना निरीक्षणप्रमार्जनात्मकेन मूत्रपुरीषादीनां परित्याग उत्सर्गसमितिरित्यर्थः । आदिना वस्त्रपात्रादीनां ग्रहणम् । तथा च जीवाविराधनेन योग्यभूमौ विधिना मूत्रपुरीषादित्यजनं लक्षणार्थः, सर्वत्र रत्नत्रयफलकत्वं विवक्षणीयं, तेन पूजाघभिलाषुकानुष्ठितोक्कक्रियाणां व्युदासः । इति चेष्टावतां संवरसिद्धिफलवत्यः क्रिया उक्ताः ॥
अथ कायादिनिरोधात् संवरफलिका गुप्तीराह
योगस्य सन्मार्गगमनोन्मार्गगमन निवारणाभ्यामात्मसंरक्षणं गुप्तिः। " सा च कायवाङ्मनोरूपेण त्रिधा । शयनासननिक्षेपादानचंक्रमणेषु चेष्टानियमः कायगुप्तिः । उपसर्गपरीषहभावाभावेऽपि शरीरे नैरपेक्ष्यं, योगनिरोद्धस्सर्वथा चेष्टापरिहारोऽपि कायगुप्तिः । अर्थवद्भविकारादिसंकेत
20
25