________________
समितिनि..]
न्यायप्रकाशसमलते । समुत्थस्वभावविशेषादूवं गच्छन् प्राप्तसिद्धत्वनामा ऋजुश्रेण्या यावत्स्वाकाशप्रदेशेष्विहावगाहस्तावद्भय एवं प्रदेशेभ्य ऊर्ध्वमप्यवगाहमानो विवक्षितसमयाच्चान्यसमयान्तरमस्पृशन् लोकान्तं व्रजति न परतोऽपि, धर्मास्तिकायाभावात् तत्र गतइशाश्वतं कालमवतिष्ठत इत्यभिप्रायेणोक्तमादिमेति । एतद्गुणस्थानस्थो जीवोऽबन्धकः, उपर्युक्तत्रयोदशप्रकृतिवेदयिता । अन्त्यसमयद्वयात्पूर्व पञ्चाशीतिसत्ताकः, उपान्त्यसमये त्रयोदशप्रकृतिसत्ताकः, चरमसमये 5 त्वसत्ताको बोध्यः । गुणस्थानेष्वेषु बहुवक्तव्यत्वेऽपि संक्षेपेण ग्रन्थगौरवभिया प्रोक्तमित्याशयेनोपसंहरतीति, विस्तरतस्त्वागमेभ्योऽवगन्तव्य इति भावः ॥
इत्थं प्रसङ्गतो गुणस्थानानि संवरस्य विभावनार्थ निरूप्याश्रवतां कर्मणां निरोधसाधनभूतास्समित्यादयः क्रमेण निरूपयितुमुपक्रमते
उपयोगपूर्विका प्रवृत्तिस्समितिः । सेर्या भाषणाऽऽदाननिक्षेपोत्सर्ग- 10 भेदेन पञ्चधा । स्वपरवाधापरिहाराय युगमात्रनिरीक्षणपूर्वकं रत्नत्रयफलकं गमनमीर्या । कर्कशादिदोषरहितहितमितानवद्यासन्दिग्धाभिद्रोहशून्यभाषणं भाषा। सूत्रानुसारेणान्नादिपदार्थान्वेषणमेषणा । उपधिप्रभृतीनां निरीक्षणप्रमार्जनपूर्वकग्रहणस्थापनात्मकक्रियाऽऽदाननिक्षेपणा। जन्तुशून्यपरिशोधितभूमौ विधिना मूत्रपुरीषादिपरित्यजनमुत्सर्गः॥ 15
उपयोगेति । उपयोगपूर्वकत्वे सति प्रवृत्तित्वं लक्षणं स्वपरप्राणिपीडापरिहारेच्छया गमनादिप्रवृत्तिरिति भावः । उदासीनप्रवृत्तिवारणाय विशेषणं ज्ञानादिवारणाय विशेष्यम् , ईर्यादिपञ्चानामेव समितित्वात् । योगक्रियारूपप्रवृत्तेर्विवक्षणाञ्च ज्ञानादिरूपात्मप्रवृत्तौ न दोषः । उपयोगपूर्वकत्वस्य साकासवादाकाङ्क्षावारणाय वा प्रवृत्तिपदम् । तां विभजते सेति, समितिरित्यर्थः । पञ्चानामीर्यादीनां तान्त्रिकी संज्ञाऽन्वर्था विज्ञेयेति भावः । अथेर्यासमिति स्वरू-20 पति-स्वपरेति । स्वस्य परस्य वा यथा बाधा न भवेत् तथा पुरतो युगमात्रं प्रेक्षमाणो बीजहरितादिप्रदेशान् परिहरन् यद्गमनं करोति यया च रत्नत्रयं सुरक्षितं भवेत्सेर्यासमितिरित्यर्थः । स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकत्वे सति रत्नत्रयफलकत्वे सति च गमनत्वं लक्षणम् । स्वपरबाधापरिहारप्रयोज्ययुगमात्रनिरीक्षणपूर्वकगतित्वस्य सत्काराद्यभिलाषुकपुरुषकर्तकगतौ गतत्वात्तद्वारणाय रत्नत्रयफलकत्वे सतीति । धर्मार्थं प्रयतमानस्य 25
कित्वेन भवापान्तरालगतावेवोदयः, तेन भवस्थस्य तदुदयासम्भवः, तदसम्भवाचायोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूस्सित्ताव्यवच्छेद इति द्विचरमसमये त्रिसप्ततिप्रकृतीनां चरमसमये द्वादशानां सत्ताव्यवच्छेद इति वदन्ति ॥