________________
: १६६ :
तस्वन्यायविभाकरे
[ सप्तमकिरणे
योगप्रतिरोधि शैलेशीकरणप्रयोजकं स्थानमयोगिगुणस्थानम् । आदिमहस्वपञ्चस्वरोच्चारणाधिकरणकालमात्र मानमेतत् । इति चतुर्दशगुण
स्थानानि ॥
योगेति । योगनिरोधावस्थारूपा या शैलेशी तत्करणप्रयोजकं यत्स्थानं तदद्योगि5 गुणस्थानमित्यर्थः, लेश्याविधुरपरमप्रकर्षप्राप्तयथाख्या तचारित्रस्य शीलस्य ईशः शीलेशोऽयोगिकेवली, तस्य त्रिभागेन संकुचिताऽऽत्मदेहस्य इयं शैलेशी, मेरुश्शैलेशः तस्येव या निष्प्रकम्पावस्था भगवतस्सा शैलेशीति वा व्युत्पत्तिः । अत्र पूर्वोक्तविविधोऽपि योगः प्रत्येकं सूक्ष्मबादरभेदेन द्विधा, केवलोत्पत्तेरनन्तरं जघन्येनान्तर्मुहूर्त्तकालमुत्कर्षेण देशोनपूर्व कोटिं विहृत्याऽन्तर्मुहूर्ताव शेषायुष्कस्सयोगिकेवली शैलेशीं प्रतिपित्सुः शुक्लध्यानविशेषध्यायी प्रथमं 10 बादरकाययोगाश्रयेण स्थूलवाङ्मनोयोगयुग्मं सूक्ष्मीकरोति । ततस्सूक्ष्मवाक्चित्तयोरवष्टम्भेन बादरकाययोगं सूक्ष्मत्वं नयति । ततस्सूक्ष्मकाययोगे तिष्ठन् सूक्ष्मवाक्चित्तयोर्निग्रहं करोति, ततश्च तत्रैव तिष्ठन् सूक्ष्मक्रियमनिवृत्तिशुक्कुध्यानं ध्यायन् सूक्ष्मकाययोगं स्वात्मनैव निरुणद्धि, अन्यस्यावष्टम्भभूतस्य योगान्तरस्याभावात्, तन्निरोधानन्तरं समुच्छिन्नक्रियमप्रतिपाति शुक्लध्यानं ध्यायन् अ इ उ ऋ ऌ इत्यादिमहूस्वपञ्चस्व रोच्चारणाधिकरणकालमानं शैले15 शीकरणमारभते, योगलेश्याकलङ्कविप्रमुक्तयथाख्यात चारित्रस्वामिसम्बन्धिनी या त्रिभागोनस्त्रदेहावगाहनायामुदरादिरन्ध्रपूरणप्रयुक्त संकुचितस्व प्रदेशस्यात्मनोऽत्यन्तस्थिराऽवस्थितिस्सा शैलेशी तस्यां करणं - पूर्वरचितशैलेशीसमय समानगुणश्रेणिकस्य वेदनीयनामगोत्राख्यस्याघातिकर्मत्रितयस्यासंख्येयगुणया श्रेण्याऽऽयुःशेषस्य तु यथास्वरूपस्थितया श्रेण्या निर्जरणं शैलेशीकरणं, तत्राऽसौ प्रविष्टोऽयोगिकेवली भवति । अत्रौदारिकद्विकास्थिरद्विकविहायोगति20 द्विकप्रत्येकत्रिकसंस्थानषट्कागुरुलघुचतुष्कवर्ण चतुष्क निर्माणकर्मतैजस कार्मणद्वयप्रथम संहनन - स्वरद्विकैकवेदनीयरूत्रिंशत्प्रकृत्युदयव्यवच्छेदो बोध्यः, मुक्त्युपान्त्य समये देहपञ्चकबन्धनपञ्चकसंघातपञ्चकाङ्गोपाङ्गत्रयसंस्थानषट्कवर्णपञ्चकरस पञ्चक संहननषट्कस्पर्शाष्टकगन्धद्वयनीचैर्गोत्रानादेयदुर्भगागुरुलघूपघातपराघातनिर्माणा पर्याप्तोच्छ्वासा यशोविहायोगतिद्वयशुभाशुभस्थैर्याऽस्थैर्थदेवगत्यानुपूर्वीप्रत्येक सुस्वरदुःस्वरैकवेदनीया द्वासप्ततिप्रकृतयः क्षयमुपयान्ति, अन्त्यसमये चैकवेद्यादेयपर्याप्तत्रसवादर मनुष्यायुर्यशो मनुष्यगत्यानुपूर्वी सौभाग्योच्चैर्गोत्र पञ्चेन्द्रि यत्वतीर्थ कृन्नामानीति त्रयोदशप्रकृतीः क्षयं नीत्वा कर्मसम्बन्धविमोक्षलक्षणसहकारि
25
१. द्रविडतैलङ्गादिभाषायां एकारौकारयोरपि हस्वत्वात्तद्वारणाय दिमेति ॥ २. अत्र केचित् मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेदः उदयाभावात् उदयवतीनां हि स्तिबुकसंक्रमाभावात्स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये व्यवच्छेदः, आनुपूर्वीनाम्नान्तु क्षेत्रविपा