________________
.
: १६५ :
योगगु० ]
न्यायप्रकाशसमलङ्कृ
काययोगो गमनागमननिमेषोन्मेषादिषु । वाग्योगो धर्मदेशनादिषु । मनोयोगोऽनुत्तरदेवैर्मन:पर्यवद्भिर्वा मनसा पृष्टस्य मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि अवधिज्ञानेन मनः पर्यवज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानुपपत्त्याऽलोकस्वरूपादिकमपि बाह्यमर्थं पृष्टमवगच्छन्तीति । सयोगिकेवल्ययं तीर्थकृदतीर्थकृञ्च भवति । येन हि पूर्वस्मिन् भवेऽर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विषु वात्सल्या - 5 दिभिर्विंशतिपुण्यस्थानकैस्तीर्थकृत्कर्माऽर्जितं तस्यात्रोदयात्रिभुवनाधिपतिर्जिनेन्द्रस्तीर्थकरश्चतुस्त्रिंशदतिशयैर्युक्तस्तीर्थप्रवर्तको भवति । यस्य तु न तीर्थकृत्कर्म स इतरः सामान्य केवली, केवलिनामत्र गुणस्थाने स्थितिमाह - इदञ्चेति । चतुरशीतिलक्षेण चतुरशीतिलक्षे गुणिते लब्धा संख्या पूर्वमुच्यते तेषां कोटि :- पूर्वकोटिस्तत्प्रमाणं देशोनमस्य गुणस्थानस्य कालमानमित्यर्थः । देशोनेति, किश्चिदूनवर्षनवकलक्षणदेशोनेत्यर्थः । जघन्य कालमानमाह - जघन्यत इति । 10 अत्रेदमवसेयं यस्याऽऽयुषस्स्थितिर्वेदनीयादिकर्मणस्सकाशान्यूना भवति तदा स कर्मणां समीकरणार्थं समुद्धातं करोति नेतरः । तत्र वेदनादिभिरेकीभावमुपगतेन जन्तुना बहूनां वेदनीयादिकर्मप्रदेशानां कालान्तरानुभव योग्यानामुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरीकरणं समुद्घातः, स च सप्तधा वेदनाकषायमरणवै क्रियतैजसाहारक केवलिभेदात् । वेदनासमुद्धातादयष्षडनुक्रममसातवेदनीय कषायान्तर्मुहूर्त्तावशिष्टा युर्वै क्रियशरीरनामतैजसशरीर - 15 नामाहारकशरीरनामकर्माश्रयाः प्रत्येकमान्तर्मुहूर्त्तिकाः, केवलिसमुद्धातस्तु सदसद्वेद्याशुभशुभनामोच्चनीचैर्गोत्रकर्माश्रयोऽष्टसामयिकः । आहारककेवलिसमुद्घातातिरिक्ताः पश्चैके. न्द्रियाणां एष्वेव वैक्रियवर्जिताश्चत्वारो विकलेन्द्रियाणामसंज्ञिपश्चेन्द्रियाणाञ्च सर्वे च मनुष्याणां भवन्ति । अन्तर्मुहूर्त्ताविशेषायुः केवली वेदनीयायुषोस्तुल्यताकरणाय नानादिक्षु आ लोकान्तमात्मप्रसारणया दण्डकपाटमन्थनान्तरालपूरणानि चतुर्भिस्तमयैः कुर्वन् व्यापी - 20 भूत्वा चतुर्भिचोपसंहरन् स्वशरीरस्थो भवति, परं तदानीं मनोवाग्योगौ न व्यापारयति । तत्र प्रथमाष्टमसमययोरौदारिकाङ्गयोगः, द्वितीयषष्ठसप्तमसमयेषु औदारिक मिश्रकाययोगः तृतीयचतुर्थपञ्चमसमयेषु च केवलं कार्मणकाययोगो भवति । अत एव तदानीमनाहारकश्च । समुद्घाताच्च निवृत्तो योगत्रयमपि व्यापारयति । ततो योगनिरोधाय ध्यानं ध्यायति । अत्रस्थो जीव एकविधबन्धकः, ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृ- 25 तीनां वेदयिता, निद्राप्रचला ज्ञानान्तरायदर्शन चतुष्करूपषोडशप्रकृतीनां सत्ताव्यवच्छेदात्वाशीतिसत्ताको भवति ॥
सम्प्रत्यन्तिमं चतुर्दशं गुणस्थानमाह