________________
:१६४: तत्त्वन्यायविभाकरे
[ सप्तमकिरणे क्षपकश्रेण्या कषायनिस्सत्तापादकं स्थानं क्षीणमोहगुणस्थानम् । क्षपकणिश्चाभवमेकवारमेव भवति । एतदनन्तरमेव सकलत्रैकालिकवस्तुस्वभावभासककेवलज्ञानावाप्तिः । आन्तर्मोहूर्तिकमिदम् ।।.-----
क्षपक श्रेण्येति । क्षपकश्रेण्या कषायाणां सर्वेषां यत्र सत्ताराहित्यकरणं तादृशं 5 स्थानं क्षीणमोहगुणस्थानमित्यर्थः, अस्याः श्रेण्या आभवमेकधैव संभव इत्याह-क्षपक
श्रेणिश्चेति-अत्र चोपान्त्यसमये निद्राप्रचले क्षीणमोहस्यान्त्यसमये च चक्षुर्दर्शनावरणादि दर्शनचतुष्कज्ञानावरणपश्चकान्तरायपश्चकानि क्षपयति, ततोऽशेषसामान्यविशेषावभासिकेवलज्ञानवान् भवतीत्याह-एतदनन्तरमेवेति । कालमानमस्याह-आन्तरिति । एतद्गुणवर्ती
जीवो दर्शनचतुष्कज्ञानावरणान्तरायदशकोच्चैर्गोत्रयशोरूपषोडशबन्धव्यवच्छेदादेकस्य सात10 वेदनीयस्य बन्धकः, संज्वलनलोभर्षभनाराचनाराचोदयव्यवच्छेदात्सप्तपश्चाशत्प्रकृतेर्वेदयंता,
लोभसत्ताक्षपकत्वादेकोत्तरशतसत्ताकश्च भवति । तथा चतुर्थगुणस्थान एकप्रकृतेः पञ्चम एकस्याः सप्तमेऽष्टानां नवमे षट्त्रिंशत्प्रकृतीनां द्वादशे सप्तदशकृतीनां क्षय इति कृत्वा क्षीणमोहान्ते त्रिषष्टिप्रकृतीनां स्थितिक्षयः शेषाः पञ्चाशीतिप्रकृतयो जरद्वस्त्रप्रायाः सयोगि
गुणस्थाने भवन्तीति ॥ 15 अधुना त्रयोदशं गुणस्थानमाह
योगत्रयवतः केवलज्ञानोत्पादकं स्थानं सयोगिगुणस्थानम् । इदश्चोत्कृष्टतो देशोनपूर्वकोटिप्रमाणम् । जघन्यतोऽन्तर्मुहूर्त्तम् ॥
योगत्रयवत इति । मनोवाकाययोगात्मकयोगत्रयवतः केवलज्ञानोद्भवप्रयोजकस्थानमित्यर्थः। योगो नाम वीर्यान्तरायक्षयक्षयोपशमसमुद्भूतलब्धिविशेषाविभूतो जीवस्य वीर्य20 विशेषः स्थामोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिपर्यायः । स द्विविधः, सकरणोऽकरणश्चेति ।
ज्ञेयदृश्येष्वखिलवस्तुषूपयुञ्जानस्य केवलिनः केवलज्ञानदर्शनयोर्योऽसावप्रतिघो वीर्यविशेषः सोऽकरणः, स नात्र विवक्षितः। मनोवाक्कायकरणको योगस्त्वत्र विवक्षितः, तैोगैरुपेतः केवली सयोगिकेवलीत्युच्यते, केवलिनोऽपि मनोवाकायजा योगा भवन्ति । तत्र
१. नारकायुषः स्थित्यभावः । २. तिर्यगायुषः स्थित्यभावः । ३. दर्शनमोहनीयसप्तकस्य क्षयः देवायुषश्च स्थित्यभावः । ४. नरकतिर्यग्द्विकसाधारणोद्योतसूक्ष्मविकलत्रिकैकेन्द्रियजातिस्त्यानचित्रिकातपस्थावरमध्यमाष्टकषायनपुंसकस्त्रीवेदहास्यादिषटू पुंवेदसंज्वलनक्रोधमानमायानामित्यर्थः । ५. संज्वलनलोभनिद्राद्विकज्ञानान्तरायदशकदर्शनावरणीयचतुष्कक्षयः कर्मग्रन्थे तु संज्वलनलोभस्य दशमान्ते क्षयः ॥