________________
अनिवृत्तिकरण० ]
म्यावप्रकाशलमल
। १६१ ।
पुनर्भवक्षयेण प्रतिपतति स नियमादनुत्तरविमानसर्वार्थसिद्धवासिषूत्पद्यते, उत्पन्नश्च प्रथमसमय एव सर्वाण्यपि बन्धनादीनि करणानि प्रवर्त्तयतीति विशेष इत्युपशमश्रेणिः ॥ अस्मिन्नष्टमगुणस्थाने जीवः निद्राद्विकदेवद्विकपचेन्द्रियत्व प्रशस्त विहायोगतित्रसनवकवैक्रियाहारकतैजसकार्मणवैक्रियाङ्गोपाङ्गाहारकाङ्गोपाङ्गाद्यसंस्थान निर्माणतीर्थ कृश्ववर्ण चतुष्कागुरुलघुपघातपराघातोच्छ्वासरूपद्वात्रिंशत्प्रकृतिव्यवच्छेदात् षड्विंशतिबन्धकः । अन्त्यसंहननत्रिकस - 5 म्यक्त्वोदयव्यवच्छेदाद् द्वासप्ततेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥
अधुना नवमं गुणस्थानमाचष्टे –
अन्योऽन्याध्यवसायस्थानव्यावृत्त्यभावविशिष्टसूक्ष्मसम्परायापेक्ष
स्थूलकषायोदयवत्स्थानमनिवृत्तिकरणगुणस्थानम् । अन्तर्मुहूर्त्तकालमेतत् । अत्रस्थोऽपि द्विविधः क्षपक उपशमकश्चेति । क्षपकश्रेणिस्थः क्षपकः, अयं 10 दर्शनावरणीय प्रकृतित्रिकं नामप्रकृतित्रयोदशकं मोहनीयप्रकृतिविंशति श्चात्र क्षपयति । उपशमश्रेणिस्थ उपशमकः । मोहनीयप्रकृतिविंशतिमेवोपशमयत्ययम् ॥
अन्योऽन्येति । युगपदेव यत्स्थानप्रविष्टानामनेकेषामपि जीवानां परस्पराध्यवसायस्थानानि न व्यावृत्यन्ते तथा सूक्ष्मसम्परायापेक्षया यत्र स्थूलकषायोदयो भवेत् तादृशम - 15 निवृत्तिकरणगुणस्थानमित्यर्थः । युगपदेतद्गुणस्थानं प्राप्तानामनेकेषामपि जीवानामन्योऽन्यमध्यवसायस्थानस्य निवृत्तिर्नास्ति यत्र यदीयगुणस्थानाद्धायामान्तमौहूर्त्तिक्यां प्रथमसमयादारभ्य प्रतिसमयमनन्तगुणविशुद्धं यथोत्तरमध्यवसायस्थानं भवति, यावन्तश्चाऽन्तर्मुहूर्ते समयास्तावन्त्येवाऽध्यवसायस्थानानि तत्प्रविष्टानां भवन्ति नाऽधिकानि, एकसमयप्रविष्टानां सर्वेषामप्येकाध्यवसायस्थानत्वात्, तथा सूक्ष्म किट्टीकृत कषायोदयापेक्षया स्थूलः कषायोदयो 20 भवति तादृशमनिवृत्तिकरणगुणस्थानमिति भावः । अस्योत्कृष्टकालमाह - अन्तरिति । जघन्यतस्त्वेकस्समयः | अत्रापि जीवद्वैविध्यं दर्शयति-अत्रस्थोऽपीति । क्षपकस्वरूपमाह - क्षपकेति । कषायाष्टकादीनां क्षपयतेत्यर्थः । काः कर्मप्रकृतीः क्षपयतीत्यत्राह - अयमिति । दर्शनावरणीयत्रिकमिति, निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिरूपमित्यर्थः, नामेति, नरकद्विकतिर्यद्विकसाधारणोद्योतसूक्ष्मनामैकद्वित्रिचतुरिन्द्रियजात्यातपस्थावररूपमित्यर्थः । मोहनीयेति, अप्रत्याख्यानप्रत्याख्यानकषायनपुंसकस्त्री वेदहास्यरत्य रतिभ यशोकजुगुप्सापुरुषवेदसंज्वलनक्रोध - 25
१. देवायुर्वर्जायुबन्धे उपशमश्रेण्यारोहणाभावादिति भावः ॥
२१