________________
: १६० तत्त्वन्यायविभाकर
[ सतमकिरणे बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन पुंवेदमुपशमयति, ततो युग. पदन्तर्मुहूर्त्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ, तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति ततोऽन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदुपशमयति, तदुपशान्तौ च तत्स5 मयमेव संज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव संचलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेद.
नाद्धा च, तत्राद्ययोर्द्वयोनिभागयोर्वर्त्तमानः संज्वलनलोभस्य द्वितीयस्थितेः सकाशालिकमा10 कृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाद्धायाश्च वर्तमानः प्रथमसमय एव त्रीनपि
लोभानप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान् युगपदुपशमयितुमारभते । विशुद्धया वर्धमानवापूर्वाणि स्पर्धकानि करोति संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयो. नावलिकाद्विकेन संज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गतायां किट्टिकरणाद्धायां
प्रविशति, तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमय15 मनन्ताः किट्टीः करोति । किट्टिकरणाद्धायाश्वरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलो.
भावुपशमयति तदुपशान्तौ च तत्समयमेव संज्वलनलोभबन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीरणाव्यवच्छेदश्च, ततोऽसौ सूक्ष्मसंपरायो भवति, तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थितिं सूक्ष्मसंपरायाद्धातुल्यां करोति वेदयते च, सूक्ष्मस.
म्परायाद्धा चाऽन्तर्मुहूर्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं 20 चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये संज्वलनलोभ उपशान्तो भवति, ततोऽ
नन्तरसमवेऽसावुपशान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूतं यावदुपतिष्ठते तत ऊर्च नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेणाद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायां। अद्धाक्षयेण च प्रतिपतन्
यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपतता 25 सता तेन ता अद्धाक्षयेणारभ्यन्त इति यावत् , प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयत
गुणस्थानं, कश्चित्ऍनस्ततोऽप्यधस्तनं गुणस्थानद्विकं याति कोऽपि सास्वादनभावमपि, यः
१. पश्चानुपूर्व्या पतितः प्रमत्तगुणस्थानमागत्यं तत्र विधम्य प्रमत्ताप्रमत्तगुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परिवृत्तीः कृत्वा कश्चिद्देशविरताविरतसम्यग्दृष्टिगुणस्थानद्विकमपि गच्छेदिति भावः । २. येषां मतेनाऽनन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सास्वादनभावमपि गच्छेदिति भावः ॥ . .