SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तस्त्वन्यायविभाकरे [ सप्तमकिरणे मानमायारूपामित्यर्थः । उपशमकस्वरूपमाह-उपशमेति । कषायाष्टकादीनामुपशमयितेत्यर्थः । मोहनीयेति । अप्रत्याख्यानप्रत्याख्यानसंज्वलनक्रोधमानमायाऽप्रत्याख्यानप्रत्याख्यानलोभहास्यषटुवेदत्रयरूपविशतिप्रकृतिमेवेत्यर्थः । अत्रस्थो जीवो हास्यरत्यरतिभयशोकजुगुप्साव्यव च्छेदाद् द्वाविंशतेर्बन्धकः। अत्र षड्विंशतिप्रकृतिभ्यो हास्यादिषट्रप्रकृतिविगमे विंशतेरवशेषा5 द्यद्यपि द्वाविंशतेर्बन्धकत्वमनुपपन्नं तथापि नानाजीवापेक्षया तथोक्तिः, एकजीवापेक्षया तु चतसृणामेवापगमः । हास्यषट्रोदयव्यवच्छेदाच षषष्टेर्वेदयिता, व्युत्तरशतसत्ताकश्च, मानान्तपञ्चत्रिंशत्प्रकृतिसत्ताव्यवच्छेदात् ॥ साम्प्रतं दशमं गुणस्थानस्वरूपमाह मोहनीयविंशतिप्रकृतीनां शमनात् क्षयादा सूक्ष्मतया लोभमात्राव10 स्थानस्थानं सूक्ष्मसम्परायगुणस्थानम् । अन्तमुहूर्तमानमेतत् ॥ मोहनीयेति । विंशतिप्रकृतिरूपे मोहे शान्ते क्षीणे वा सूक्ष्मखण्डीभूतातिदुर्जयसंज्वलनलोभमात्रावस्थानस्य स्थानमित्यर्थः, शमनात् क्षयादिति पदाभ्यामत्रस्थोऽपि जीवः क्षपक उपशमकश्चेति द्विविध इति सूचितम् । अत्र क्षपकश्रेण्या समागत उपशमश्रेण्या समागतश्च संज्वलनलोभं क्रमेण क्षपयत्युपशमयति चेत्यर्थः । सूक्ष्मतयेति-अनिवृत्तिबादरेण 15 किट्टीकृतत्वादिति भावः । अस्य कालनियममाह-अन्तरिति । उपशान्तकषायस्तु संज्वलनलो भमुपशमय्यैकादशगुणस्थानं यातीति । क्षपकस्तु लोभं क्षपयित्वोज़ द्वादशगुणस्थानं यातीति च विज्ञेयम् । सूक्ष्मसम्परायाद्धाचरमसमये तस्य लोभस्य क्षयो वोपशमो वा भवतीति विभावनातोऽन्तर्मुहूर्त्तमानमुक्तम् , अत्रस्थो जीवः पुंवेदसंज्वलनचतुष्कबन्धव्यवच्छेदात्सप्त दशकर्मप्रकृतेर्बन्धकः, त्रिवेदत्रिसंज्वलनोदयव्यवच्छेदात् षष्टेर्वेदयिता, मायासत्ताव्यवच्छेदाद्-' 20 द्वयुत्तरशतसत्ताकश्च ॥. उपशमश्रेणिद्वारा समायातस्योपशान्तसंज्वलनलोभस्य प्राप्यं गुणस्थानमेकादशमाह उपशमश्रेण्या सर्वकषायाणामुदयायोग्यतया व्यवस्थापनस्थानमुपशान्तमोहगुणस्थानम् । अत्राष्टाविंशतिमोहनीयप्रकृतीनामुपशमो भवति, उपशान्तमोहस्तूत्कर्षेणाऽन्तर्मुहर्त्तकालमत्र तिष्ठति । तत ऊवं निय. 25 मादसौ प्रतिपतति । चतुर्वारं भवत्यासंसारमेषा श्रेणिः ॥ उपशमश्रेण्येति । उपशमश्रेण्या सर्वेषां क्रोधादीनां कषायाणां विद्यमानानामपि भस्म
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy