SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ : १५४ : तवम्याविभाकरे [ सप्तमकिरण मोक्षमुपयातीति चेदुच्यते तृतीये चतुर्थे वा भवं इति । तथा क्षीणसप्तकः पूर्ववद्धायुष्कोऽपि यदि तदानीं कालं न करोति तर्हि कश्चिद्वैमानिकेष्वेव बद्धायुष्कश्चारित्रमोहनीयोपशमार्थमपि यतते, न शेषभवेषु बद्धायुष्कः । यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यतते । यतमानश्च तत्र 5 यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अप्रमत्तगुणस्थाने यथाप्रवृत्तिकरणम पूर्वगुणस्थानेऽपूर्वकरणमनिवृत्तिबादरसम्परायेऽनिवृत्तिकरणम् । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानांवरणकषायाष्टकम निवृत्तिकरणाद्धाप्रथमसमये पल्योपमासंख्येयभागमात्रस्थितिकं यथा भवेत्तथा क्षपयति । अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु स्त्यानर्द्धित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्व्येकद्वित्रिचतुरिन्द्रियजातिस्थावरातपोद्योतसूक्ष्मसाधारणानां षोडश - 10 प्रकृतीनामुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमा संख्येयभागमात्रा स्थितिर्जाता, ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति, इहाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्त्तेन क्षपयतीत्येष सूत्रादेशः । अन्ये त्वाहुः षोडशकर्माण्येव पूर्वं क्षपयितु15 मारभते केवलमपान्तरालेऽष्टौ कषायान् क्षपयति पश्चात् षोडशकर्माणीति । ततोऽन्तर्मुहूर्त्तेन नवानां नोकषायाणां चतुण्णी संज्वलनानाश्चाऽन्तरकरणं करोति । तच्च कृत्वा नपुंसक वेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते । तञ्चाऽन्तर्मुहूर्तेन पयोपमासंख्येयभागमात्रं भवति, ततः प्रभृति बध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्द लिकं प्रक्षिपति, तञ्चैवं प्रक्षिप्यमाणमन्तर्मुहूर्त्तेन निःशेषं क्षीणम् । अधस्तनस्थितिदलिकं च यदि नपुंसकवे20 देन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तद्भवति, तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसकवेदः । ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, ततः षट् नोकषायान् युगपत्क्षपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति किन्तु संज्वलनक्रोध एव, एतेऽपि च पूर्वोदितविधिना क्षिप्यमाणा अन्तर्मुहूर्तेन निःशेषं क्षीणास्तत्समय एव च १. यदि स्वर्गे नरके वा गच्छति तदा स्वर्गभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति, यदि तु तिर्यक्षु मनुष्येषु वोत्पद्यते तदावश्यमसंख्येयवर्षायुष्केष्वेव न संख्येयवर्षायुष्केषु ततस्तद्भवानन्तरं देवभवं ततश्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् । इदञ्च प्रायिकं क्षीणसतकस्य कृष्णस्य पञ्चमभवेऽपि मोक्षगमनश्रवणात् । २. नपुंसकवेदेन श्रेणिमनारूढश्चेदित्यर्थः ।
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy