SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ क्षपकश्रेणिः ] न्यायप्रकाशसमलङ्कृते पुंवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, समयोनावलिकाद्विकबद्धं मुक्त्वाऽशेषदलिकक्षयश्च, ततोऽसाविदानीमवेदको जातः, क्रोधं च वेदयतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति, अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा चेति, तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि संज्वलनानामन्तरकरणादुपरितनस्थितौ करोति, अथ किमिदं स्पर्धकमुच्यते-इह तावदनन्तानन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः 5 कर्मतया गृह्णाति तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्याऽपि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिका: नन्यस्तु द्वघधिकानेवमेकोत्तरया वृद्ध्या ता वन्नेयं यावदन्त्यपरमाणुरभव्यानन्तगुणान् सिद्धा. नन्तभागेनाधिकान् रसभागाम् प्रयच्छति, तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदाः यस्समानजातीयत्वादेका वर्गणेत्युच्यते, अन्येषां त्वेकाधिकरसभागयुक्तानां समुदायो द्वितीया 10 वर्मणा, अपरेषां तु व्यधिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा, एवमनया. दिशैकैका रसभागवृद्धानामणूनां समुदायरूपा वर्गणास्सिद्धानन्तभागकल्पा अभव्यानन्तगुणा वाच्याः । एतासाश्च समुदायः स्पर्धकमित्युच्यते । इत ऊर्ध्वमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानो . रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसभागैः, ततस्तेनैव क्रमेण ततःप्रभृति द्वितीय स्पर्धकमारभयते, एवमेव च तृतीयमेवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि, एतेभ्य 15 एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्वं कदाचनापि कृतानि ततोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुंवेदं समयोनावलिकाद्विकेन कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायाश्च समाप्तायां किट्टिकरणाद्धायाश्च वर्तमानश्चतुर्गामपि संज्वलनानामुपरितनस्थितिदलिकस्म किट्टीः करोति, 20 किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् । यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागामां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिमस्तिस्रः, तद्यथा, प्रथमा 25 १. पुदिनः प्रारम्भकस्यैतत् । यदा नपुंसकवेदी प्रारम्भकः तदा प्रथमं स्त्रीवेदनपुंसकवेदी युगपत्क्षपयति, तत्क्षयसमय एव पुंवेदबन्धव्यवच्छेदः। ततः पुंवेदहास्यषट्के युगपत्क्षपयति । यदा स्त्रीवेदी प्रारम्भकः तदा प्रथमं नपुंसकवेदं ततस्त्रीवेदं क्षपयति तत्क्षयसमकालमैव च पुंवेदबन्धव्यवच्छेदः, ततः पुंवेदहास्यषट्कयोयुगपत्क्षय इति ॥ २. पुंवेदिन इत्यर्थः । .. . . ......'
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy