________________
क्षपकश्रेणिः ]
म्यायप्रकाश समलङ्कृते
: १५३ :
पन विनाशयति । उद्बलनासंक्रमे तु प्रथमतः पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तमुहूर्तेन कालेनोत्किर्यते । उत्कीरणं नाम घनदलान्वितस्यास्पदलोत्तारणं, तदेव चोद्वलनमुच्यते । ततो द्वितीयं स्थितिखण्डं प्रथमस्थितिखण्डाद्विशेषहीनतरं पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्त्तेन कालेन विनाशयति, एवं प्रत्येकमन्तर्मुहूर्तेन कालेनोत्कीर्यमाणानि पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वपूर्वस्थित्यपेक्षया विशेषतो हीनानि विनाशयति, 5 इत्येवंरूप उद्वलनासंक्रमः । अनिवृत्तिकरणं च प्राप्तो गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्तादावलिकामा मुक्त्वोपरि निरवशेषानन्तानुबन्धिनो विनाशयति, आवलिकामात्रं तु स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति, ततोऽन्तर्मुहूर्तात्परतोऽनिवृत्तिकरण पर्यवसाने शेषकर्मraft स्थितिघातरसघातगुणश्रेणयो न भवन्ति, किन्तु स्वभावस्थ एव भवति चतुर्विंशतिसत्कर्मा । तदेवं क्षपिताऽनन्तानुबन्धिचतुष्को दर्शनमोहनीयक्षपणाय यतते, तदारम्भको मनुष्यो 10 जिनकालसम्भवी वर्षाष्टको परि वर्तमानो वज्रर्षभनाराचसंहननश्च भवति । दर्शनमोहक्षपणार्थं यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणाद्धायाश्च वर्त्तमानो दर्शनन्त्रिकस्य स्थितिसत्कर्म तावदुद्वलनासंक्रमेणोद्वलयति यावत्पल्योपमा संख्येयभागमात्रमवतिष्ठते, ततो मिध्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्चैवं, प्रथमसमये स्तोकं द्वितीयसमये ततोऽसंख्येयगुणमेवं यावदन्तर्मुहूर्त्तचरमसमयं, आवलिकागतं मुक्त्वा शेषं द्विचरमसमयसंक्र- 15 मितदलिका दसंख्येयगुणं संक्रमयति, आवलिकागतन्तु स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति, एवं मिथ्यात्वं क्षपितम् । ततोऽन्तर्मुहूर्तेन सम्यमिध्यात्वमप्यनेनैव क्रमेण सम्यत्वे प्रक्षिपति, ततस्सम्यङ् मिध्यात्वं क्षपितम् । ततस्सम्यक्त्वमपवर्त्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्त्तेन तदप्यन्तर्मुहूर्तमात्रस्थितिकं जातं, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातं, ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदस्ततो विपाकानु- 20 भवेनैव केवलेन वेदयति यावच्चरमसमयं ततोऽनन्तरसमयेऽसौ क्षायिक सम्यग्दृष्टिर्जीयते । इह यदि बद्धायुः क्षपकश्रेणिमारभते तदाऽनन्तानुबन्धिक्षयानन्तरच मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति मिथ्यात्वाभावात् । क्षीणसप्तकः पूर्वबद्धायुराश्रित्य सर्वगतिभाग्भवति यदि तिर्यङ्मनुष्यो वा भवति तदाऽसंख्येय वर्षायुष्केष्वेव | 25 बद्धकोऽपि यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्र मोक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे
२०