________________
तस्वन्यायविभाकरे
.. [ ससमकिरणे त्तरमधिकवृद्ध्याऽसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति । आद्यक्षण एचैतद्गुणस्थानप्रपन्नत्रैकालिकनाना जीवाश्रयेण जघन्यादीन्युत्कृष्टान्तानि असंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्ति, ततोऽधिकाधिकानि द्वितीयादिक्षणेषु तु स्युः । स्व
भावविशेषाञ्च द्वितीयादिसमयेषु अध्यवसाय स्थानानां वृद्धिः । अत्र च प्रथमसमयजघन्या। ध्यवसायादनन्तगुणविशुद्ध प्रथमसमयोत्कृष्टाध्यवसायस्थानम् । तस्माच्च द्वितीयसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धम् , ततश्च तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावद् द्विचरमसमयोत्कृष्टाध्यवसायस्थानाच्चरमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं -तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धमिति । अस्यैव च निवृत्तिबादरसम्परायमिति नामान्तरम् ।
अनेकजीवानामेतद्गुणस्थानं युगपत्प्रविष्टानां परस्परमध्यवसायस्थानव्यावृत्तेः । एकसमयगतानि 10 चामून्यध्यवसायस्थानानि परस्परं षट्स्थानपतितानीति दिक् ॥ अथ क्षपकश्रेणिरुपशमश्रे। णिश्च बोधायोच्यते संक्षेपतः प्रसङ्गात् । वर्षाष्टकोपरि वर्तमानो वर्षभनाराचसंहननवाम्
शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः पुमान् क्षपकश्रेणिप्रतिपता भवति । केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः, शेषस्तु सर्वोऽपि धर्म
ध्यानोपगतः । सम्प्रति प्रथममनन्तानुबन्धिनां विसंयोजना प्रोच्यते, श्रेणिप्रतिपत्तुरवश्यं पूर्व10 मनन्तानुबन्धिनो विसंयोजनाया आवश्यकत्वात् । अनन्तानुबन्धिनां विसंयोजकश्चतुर्ग; तिको जीवस्तत्राऽपि देवो नैरयिको वाऽविरतसम्यग्दृष्टिः, तिर्यक्पश्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तोऽविरतसम्यग्दृष्टिर्देशविरतो वा, मनुष्यस्त्वविरतसम्यग्दृष्टिदेशविरतसंवविरतो वा भवति । तत्र यथासम्भवं विशुद्धपरिणामोऽनन्तानुबन्धिनां क्षपणाय यथाप्रवृत्त्यपूर्वानिवृत्ति
करणानि करोति, अन्तरकरणं तु न करोत्यत एव प्रथमस्थितिमपि न करोति, उपशमोऽपि 20 न भवति, तेषां गुणसंक्रमश्चातापूर्वकरणप्रथमसमयात्प्रवर्तते । तथाहि तादृशसमय एव दलि.: कमनन्तानुबन्धिनां शेषकषायात्मकपरप्रकृतौ स्तोकं संक्रमयति, द्वितीये समये ततोऽसंख्येय
गुणं, तृतीये च ततोऽप्यसंख्येयगुणमेवमेव यावदपूर्वकरणचरमसमयम् । एष गुणसंक्रमः । अपूर्वकरणे उद्वैलनासंक्रमानुविद्धगुणसंक्रमेणानन्तानुबन्धिनश्शेषप्रकृतिरूपतया व्यवस्था
१. यद्यप्यत्र कालत्रयापेक्षणात् अनन्तजीवरस्य प्रतिपन्नत्वात्प्रतिपत्स्यमानत्वाच्चैतद्गुणस्थानं प्रतिपन्नानामनन्ताध्यवसायस्थानानि प्रसज्यन्ते तथापि बहूनामेतत्स्थानप्रतिपतृणामेकाध्यवसायस्थानवर्तित्वादपि न दोषः । अध्यवसायस्थानानां भिन्नत्व एव तथा सम्भवात् ॥ २. अनन्तभागवृद्धयसंख्यातभागवृद्धिसंख्यातभागवृद्धि संख्येयगुणवृद्धयसंख्येयगुणवृद्धयनन्तगुणवृद्धिरूपषदस्थानकपतितानीत्यर्थः ॥ ३. प्रथमस्थितिखण्डस्य स्थित्यपेक्षया बृहत्तरस्य द्वितीयादिस्थितिखण्डानाञ्च विशेषविशेषहीनानां यद्धातनं तेन निष्पन्नो य उद्वलनासंक्रमस्तदनुर्विद्ध इत्यर्थः ॥