________________
अपूर्वस्थितिबन्धः ]
न्यायप्रकाशसमलते ऽल्पावेव करोत्यस्मिस्तु विशुद्धिवृद्धितः बृहत्प्रमाणतयेमावपूर्वी करोति । गुणश्रेणिस्वरूपमाचष्टे-तेनैव करणेनेति । अपवर्तनाकरणेनैवोपरितनस्थितेर्विशुद्धिवशादवतारितस्य दलिकस्यान्तर्मुहूर्त यावदुदयक्षणादुपरि द्रुततरक्षपणाय प्रतिक्षणमसंख्येयगुणवृद्ध्या शुद्धयपकर्षतः पूर्वगुणस्थानेषु दलिकरचनामाश्रित्य लघीयस्तया कालतो द्राधीयस्तया दलिकस्याल्पस्यापवर्त्तनाकरणेन कृतस्य कालतो हखतरतया दलिकरचनामाश्रित्य च पृथुतरतया बहुतरस्य 5 तस्य यद्विरचनं सा गुणश्रेणिरित्यर्थः ॥ .... गुणसंक्रमस्वरूपमाह- ..
बध्यमानशुभप्रकृतिष्ववध्यमानाशुभप्रकृतिदलिकस्य विशुद्धितो नयनं गुणसंक्रमः॥ . बध्यमानेति । गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारेण संक्रमो बध्यमानप्रकृति- 10 व्यतिरिक्तप्रकृतिदलिकं बध्यमानासु शुभप्रकृतिषु प्रक्षिप्य बध्यमानप्रकृतिरूपतया तस्य परिणमनं गुणसंक्रमः, अपूर्वकरणादारभ्य षट्चत्वारिंशदशुभप्रकृतीनां संक्रमो भवति, ताश्च प्रकृतयो मिथ्यात्वातपनारकायुर्वर्जा मिथ्यादृष्टियोग्यास्त्रयोदश, अनन्तानुबन्धितिर्यगायुरुद्योतवर्जास्सास्वादनयोग्या एकोनविंशतिः, मध्यमकषायाष्टकास्थिराशुभायशःकीर्तिशोकारत्यसातवेदनीयाः । तत्र मिथ्यात्वस्यानन्तानुबन्धिनाञ्चापूर्वकरणादागेव संक्रमः, अत एवा- 15 विरतसम्यग्दृष्ट्यादयश्च क्षपयन्ति । आतपोद्योते च शुभे, अशुभप्रकृतीनामेव गुणसंक्रमात् । आयुषाश्च परप्रकृतौ संक्रमासंभवा दिह तद्वर्जनं बोध्यम् । निद्राद्विकोपघाताप्रशस्तवर्णादिनवकहास्यरतिजुगुप्सानां त्वपूर्वकरणे स्वस्वबन्धव्यवच्छेदादारभ्य गुणसंक्रमो भवति तदेतदुक्तं बध्यमानशुभप्रकृतिष्वबध्यमानाशुभप्रकृतिदलिकस्येति ॥ अपूर्वस्थितिबन्धमाख्याति
20 - विशुद्धिप्रकर्षण गुाः कर्मस्थितेलघुतया बन्धनमपूर्वस्थितिबन्धः । अन्तर्मुहूर्त्तकालमेतत् । अत्रस्थो जीवः क्षपक उपशमकश्चेति द्विविधः ।।
विशुद्धिप्रकर्षेणेति । प्राकर्मणामशुद्धत्वाबाधीयस्तया बद्धायाः स्थितेर्विशुद्धिवशात् पल्यो पमासंख्येयभागेन हीनहीनतरहीनतमतया बन्धनमपूर्वस्थितिबन्ध इत्यर्थः । अस्य गुणस्थानस्य कालमानमाह-अन्तरिति । जघन्यतस्त्वेकस्समयः । अत्र श्रेणिद्वयं दर्शयितुमाह-25 अत्रस्थ इति । क्षपणाहत्वादुपशमनार्हत्वाच क्षपणोपशमनाभावेऽपि राज्याईकुमारस्य राजवत् तथोच्यत इति बोध्यम् । गुणस्थानेऽस्मिन् त्रैकालिकानेकजीवापेक्षया प्रतिसमयं यथो