________________
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे हस्रशीलाङ्गलक्षणैरन्वितो ज्ञानध्यानधनो मौनी सम्यक्त्वमिश्रमिथ्यात्वानन्तानुबन्धिचतुष्टयलक्षणसप्तकातिरिक्तैकविंशतिप्रकृतिरूपस्य मोहनीयस्य प्रशमाय क्षयाय वा निरालम्बन ध्यानप्रवेशप्रारम्भं कुरुते । के ते नोकषाया इत्यत्राह-नोकषाया इति । हास्यादय इत्यादिना रत्यरतिशोकभयजुगुप्सा ग्राह्याः, वेदत्रयश्चेति, पुंस्त्रीनपुंसकरूपमित्यर्थः । स्थितिमस्य गुण5 स्थानस्याह-अन्तरिति । जघन्या त्वेकः समयः । अत्र वर्तमानो जीवः शोकारत्यस्थिरा
शुभायशोऽसातव्यवच्छेदादाहारकद्विकबन्धाञ्चैकोनषष्टेबन्धकः । तथा यदि देवायुरपि न बध्यते तदाष्टपञ्चाशतो बन्धकः । एवं स्त्यानर्द्धित्रिकाहारकद्विकोदयव्यवच्छेदात् षट्सप्ततेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥
इदानीमष्टमं गुणस्थानं प्रदर्शयति10 .. स्थितिघातरसघातगुणश्रेणिगुणसंक्रमापूर्वस्थितिबन्धात्मकानामानां विशुद्धिप्रकर्षादपूर्वतया निवर्तनमपूर्वकरणगुणस्थानम् ॥
स्थितिघातेति । स्थितेर्धातः स्तोककरणं करणविशेषेण, एवं रसघातोऽपि, गुणानां .. श्रेणिरनन्तगुणवृद्धिकरणम् , गुणेन संक्रमण-नयनं गुणसंक्रमः, अपूर्वायास्स्थितेलघुतया
बन्धोऽपूर्वस्थितिबन्धः । एतेषां विशुद्धिविशेषादिदम्प्रथमतया करणं यत्रेत्यर्थः । अपूर्वम15 मिनवमनन्यसदृशं करणं स्थितिघातरसघातगुणश्रेणिगुणसंक्रमस्थितिबन्धानां पश्चानां पदार्थानां निर्वर्त्तनं यत्र तदपूर्वकरणमिति व्युत्पत्तेः ।।
स्थितिघातादीनां किं स्वरूपमित्याशङ्कायामाह
प्रचुरमानाया ज्ञानावरणीयादिकर्मस्थितेरपवर्तनाभिधकरणेन तनूकरणं स्थितिघातः । प्रचुररसस्य तेनैव करणेन तनूकरणं रसघातः । तेनैव 20 करणेनावतारितस्य दलिकस्य प्रतिक्षणमसंख्येयगुणवृद्धया विरचनं गुणश्रेणिः ॥
प्रचुरमानाया इति । गरीयस्या ज्ञानावरणादिकर्मणां स्थितेरपवर्तनाकरणेनाल्पीकरणमित्यर्थः । रसघातस्वरूपमाह-प्रचुररसस्येति । कर्मपरमाणुगतस्निग्धलक्षणस्य प्रचुरीभूतस्य रसस्येत्यर्थः, तेनैव करणेनापवर्तनाकरणेनेत्यर्थः, पूर्वगुणस्थानेष्वेतौ द्वावपि विशुद्धथल्पतया
१. कश्चित्प्रमत्तः सन् सुरायुर्बद्धमारभते बन्धञ्च समापयति तदा सप्त व्यवच्छिद्यन्त इति भावः ।