________________
स्रप्तमगुण ०. ]
म्यायप्रकाशसमलङ्कृते
: १४९ :
विशुद्ध्यपकर्षोऽविशुद्धिप्रकर्षश्च । एतदन्तर्मुहूर्त्तमानमिति केचित् । पूर्वकोटिं यावदित्यन्ये ॥
संज्वलनेति । यो हि सर्व सावद्येभ्यस्सम्यगुपरतोऽपि केवलसंज्वलनकषायस्य तीव्रोदयान्मदिरादिपञ्चविधप्रमादेष्वन्यतमं सर्वान्वाऽन्तर्मुहूर्त्त सेवते तस्येदं गुणस्थानमित्यर्थः, अन्तर्मुहूर्त्तादुपरि सप्रमादश्चेत् तस्मादधःपतनमेव स्यात्, प्रमादरहितश्चेदप्रमत्तगुणस्थानमारो - 5 हति । के ते प्रमादा इत्यत्राह - इ-प्रमादाश्चेति । देशविरतगुणपेक्षयैतद्गुणानां विशुद्धिप्रकर्षोऽशुद्ध्यपकर्षश्च, अप्रमत्तसंयतगुणापेक्षया तु विपर्ययः, एवं सर्वगुणस्थानेषु भाव्यमित्यभिप्राये - णाह-देशविरत्यपेक्षयेति । अस्य स्थितौ मतभेदं दर्शयत्येतदिति, परतो गुणस्थानान्तरगमनात् मरणाद्वेति भावः, जघन्यतस्त्वेकस्समयस्तदूर्ध्वं मरणभावेनाधोगमनादिति । अष्टवर्षोनां पूर्वकोटिं यावदुत्कर्षतः प्रमत्तता स्यादिति केषाञ्चिन्मतमादर्शयति-पूर्व कोटिमिति । 10 षष्ठसप्तमयोर्देशोनपूर्व कोटिं यावत्स्थितेर्व्यवस्था भगवतीसूत्रे त्वेवं-प्रमत्ताप्रमत्तगुणस्थाने प्रत्येकमन्तर्मुहूर्त्तप्रमाणे एव ते च पर्यायेण जायमाने देशोनपूर्व कोटिं यावदुत्कर्षेण भवतः, महान्ति चाप्रमत्तापेक्षया प्रमत्तान्तर्मुहूर्त्तानि कल्प्यन्ते, एवं चान्तर्मुहूर्त्तानां प्रमत्ताद्धानां मेलने देशोनपूर्वकोटीकालमानं भवतीति दृश्यते । अत्र जीवः प्रत्याख्यानावरणकषाय चतुष्कव्यवच्छेदात्रिषष्टेर्बन्धकः । तिर्यग्गतितिर्यगायुर्नीचैर्गोत्रोद्योत प्रत्याख्यानरूपाष्टप्रकृत्युदयव्यवच्छेदादाहा- 15 रकद्वयोदयाच्चै काशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥
तर्हि सप्तमं गुणस्थानमाह -
संज्वलनकषायनोकषायाणां मन्द्रोदयतः प्रमादाभावोऽप्रमत्तसंयतगुणस्थानम् । नोकषाया हास्यादयष्षड् वेदत्रयश्च । अन्तर्मुहूर्त्तस्थितिकमिदम् ॥
संज्वलनेति । यत्र हि महाव्रती साधुः संज्वलनाभिधक्रोधादीनां कषायचतुष्टयानां नोकषायाणां नवविधानाश्च मन्द्रोदयतोऽतीत्रविपाकोदयेन पूर्वोदितपञ्चविधप्रमादरहितो भवति तदप्रमत्तसंयतगुणस्थानमित्यर्थः । अत्र नष्टाखिलप्रमादो महाव्रतादिभिरष्टादशस
१. ननुदेशविरतादिवत्प्रचुरमपि कालं न कथं प्रमत्तत्वं भजेत । यतोऽन्तर्मुहूर्त्तमेव तदिति निश्चयः स्यादिति चेन्न, संक्लेशस्थानापेक्षं हि प्रमत्तत्वं संक्लेशस्थानानि च संख्येयलोकाक शप्रदेशप्रमाणानि यावदुपशमश्रेणि क्षपकश्रेणिं वा मुनिर्नारोहति तावदवश्यं स्वभावादेवान्तर्मुहूर्त संक्लेशस्थानेषु स्थित्वा विशोधिस्थान याति तत्रापि तावत्कालमेव स्थित्वा संक्लेशस्थानं याति एवमेव निरन्तरं परावृत्तीः देशोनपूर्वकोटिं यावत्क - रोतीत्येकजीवाश्रयेणोत्कर्षतोऽप्यन्तर्मुहूर्त्तमिति भावः ॥
20