________________
: १४८ :
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे
पत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं पिधानमिति द्वितीयः । मत्सरः कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददाति अथवाऽनेन तावद्रङ्केण याचितेन दत्तं, किमहं ततो न्यून इति मात्सर्याद्ददाति । अत्र परोन्नतिवैमनस्यं मात्सर्य, इति तृतीयः । कालस्य साधूचित भिक्षासमयस्य लंघो - लंघनमतिक्रमः, अयं भाव: काले न्यून - 5 मधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति चतुर्थः । अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीत्यपदेशः व्याजोऽन्यापदेशः अयं भावः परकीयमेतत्तेन साधुभ्यो न दीयत इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्यादिति साधुसम्प्रत्ययार्थम् अथवास्माद्दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः । इत्येवमतिचारा आभो-. 10 गेनापि विधीयमाना अतिचारा एवेत्युपासकदशाङ्गवृत्तिः । धर्मबिन्दु योगशास्त्रवृत्त्यादौ तु यदानाभोगादिनाऽतिक्रमणादिना वा एतानाचरति तदाऽतिचाराः अन्यथा तु भङ्गा एवेति . भावितमिति संक्षेपः । विस्तरस्तु अन्यग्रन्थेभ्योऽवगन्तव्यः ॥
अस्योत्कृष्टां स्थितिमाह
उत्कर्षतो देशोन पूर्वकोटिं यावत्स्थितिकमिदम् ॥
उत्कर्ष इति । गर्भस्थो हि किल नवमासान् सातिरेकान् गमयति, जातोऽपि चाष्टौ वर्षाणि यावद् विरत्यनर्हो भवति तत ऊर्ध्वं देशविरतिं प्रतिपद्य पूर्वकोटिं जीवति तत उक्त देशोनेति किञ्चिदून वर्ष नवकलक्षणेन देशेनोनेत्यर्थः । यतिधर्मासमर्थस्यागारिण इयं देशविरति - भवति । अत्रस्थ जीवोऽप्रत्याख्यानकषाय चतुष्क मनुष्यत्रिकाद्यसंहननौदारिकद्वयबन्धव्यवच्छेदात्सप्तषष्टेर्बन्धकः । अप्रत्याख्यानकषायनरतिर्यगानुपूर्वीद्वय नरकत्रिकदेव त्रिक वैक्रिय20 द्वयदुर्भगानादेयायशो रूप सप्त दश प्रकृतीनामुदयव्यवच्छेदात्सप्ताशीतेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताकश्च भवति ॥
अधुना षष्ठं गुणस्थानं निरूपयति
15
संज्वलनकषायमात्रोदयप्रयुक्तप्रमादसेवनं प्रमत्तसंयत गुणस्थानम् । प्रमादाच मंदिराकषायविषयनिद्राविकथानामानः पञ्च । देशविरत्यपेक्ष25 याsत्र गुणानां विशुद्धिप्रकर्षो ऽविशुद्ध्यपकर्षश्च, अप्रमत्तसंयतापेक्षया तु
४१. वर्षाणामष्टानामधो वर्तमानानां परिभवक्षेत्रत्वेन देशतस्सर्वतो वा चरणपरिणामो न भवति, षाण्मासिकानां वज्रस्वामिनां चरणप्रतिपत्तिस्त्वाश्चर्यभूता, कादाचित्कीति बोध्यम् ॥