________________
श्रावकधर्मः ]
न्यायप्रकाशसमलङ्कृते
: १४७ :
तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारः । रूपानुपातनं यथा रूपंशरीरसम्बन्धि, उत्पन्नप्रयोजनः शब्दमनुच्चारयन् आह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातननामातिचारः । पुद्गलप्रेरणं पुद्गलाः परमाणवः तत्संघात - समुद्भवा बादरपरिमाणं प्राप्ता लोष्टादयोऽपि तेषां क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति पातसमनन्तरमेव ते 5 तत्समीपमनुधावन्ति ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः । अत्राद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयन्तु मायापरतयाऽतिचारतां यातीति विवेकः । अत्र दिग्वतसंक्षेपकरण मणुव्रतादिसंक्षेप करणस्याप्युपलक्षणं तेषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वादिति विज्ञेयम् । ननु सर्वत्रातिचारा दिव्रतसंक्षेपकरणस्यैव श्रूयन्ते न व्रतान्तरसंक्षेपकरणस्य तत्कथं व्रतान्तरसंक्षेपकरणं देशावका शिकव्रतमिति चेदुच्यते 10 प्राणातिपातादिव्रतान्तर संक्षेप करणेषु वधबन्धादय एवातिचाराः दिग्व्रतसंक्षेपकरणे तु संक्षिप्तत्वात्क्षेत्रस्य प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च दिग्वतसंक्षेपकरणस्यैव देशावकाशित्वं साक्षादुक्तमिति || अप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रमृज्य चादानं, अप्रत्युपेक्ष्याप्रमृज्य च हानं, अनादरः, अस्मृतिश्चेति पञ्चातिचाराः तृतीयस्य शिक्षापदव्रतस्य । तत्राप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, संस्तीर्यते प्रतिपन्नपोषधत्रतेन दर्भकुशकम्बली 15 वस्त्रादिरिति संस्तारः, संस्तारशब्दश्च शय्योपलक्षणम्, तत्र शय्या - शयनं सर्वाङ्गीण वसतिर्वा, संस्तारश्चार्धतृतीय हस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमार्ण्य च कर्त्तव्यः प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रमार्जन रजोहरणवस्त्रप्रान्तादिना तस्यैव शुद्धीकरणम् । अथाप्रत्युपेक्ष्याप्रमृज्य चसंस्तारकं करोति तदा पोषधत्रतमतिचरतीति प्रथमोऽतिचारः । अप्रत्युपेक्ष्याप्रमार्ण्य चादानं, आदानं यष्टिपीठफलकादीनां ग्रहणम्, तदपि यष्टवादीनां निक्षेपस्योपलक्षणं तेनोभयमपि 20 प्रत्युपेक्ष्य प्रमृज्य च कार्यम्, अप्रत्युपेक्षितस्याप्रमार्जितस्यादानं निक्षेपश्चातिचार इति द्वितीयः । अप्रत्युपेक्ष्याप्रमार्ण्य च हानं - उत्सर्गरत्याग इति यावत्, तच्चोच्चारप्रश्रवणखेल सिङ्घाणकादीनां प्रत्युपेक्ष्य प्रमृज्य च स्थंडिलादौ कार्यम्, अप्रत्युपेक्ष्याप्रमृज्य चोत्सर्जनमतिचार इति तृतीयः । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमार्जनं सङ्गृह्यते नमः कुत्सार्थस्यापि दर्शनात् यथा कुत्सितो ब्राह्मणोऽब्राह्मण इत्यादिः । अनादर :- अनुत्साहः 25 पोषधव्रतप्रतिपत्तिकर्त्तव्य तयोरिति चतुर्थः । अस्मृतिः अस्मरणं तद्विषयैवेति पञ्चमः ॥ सचित्ते स्थापनं, सचित्तस्थगनं, मत्सरः, काललंघः, अन्यापदेशश्चेति चतुर्थस्य शिक्षापदव्रतस्य पचातिचाराः, तत्र सचित्ते सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापनं साधुदेयभक्तादेर्निक्षेपणं तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः । सचितेन कन्द