________________
तस्वम्यायविभाकरे
[ सप्तमकिरणे सामायिक कर्त्तव्यं, कृतं मया सामायिकं न वेत्येवंरूपस्मरणभ्रंशोऽतिचारो मोक्षानुष्ठानस्य स्मृतिमूलत्वादिति चतुर्थः । अनादरोऽनुत्साहः, प्रतिनियतवेलायां सामायिकस्याकरणं, यथाकथञ्चिद्वा करणानन्तरमेव पारणश्चेति पञ्चमोऽतिचारः । ननु सति कायदुष्प्रणिधानादौ सामायिकस्य निष्फलत्वेन वस्तुन एवाभावः स्यात् , अतिचारस्तु तन्मालिन्यरूप एव 5 भवतीति सामायिकस्यैवाभावेऽयमतिचारः कथं स्यादतो भङ्गरूपा एवैते नातिचारा इति
चेदुच्यते, अनाभोगादतिचारत्वमिति । ननु द्विविधं त्रिविधेनेति सावधप्रत्याख्यानं सामायिक, तत्र च कायदुष्प्रणिधानादौ प्रत्याख्यानभङ्गात्सामायिकाभाव एव तद्भङ्गजनितश्च प्रायश्चित्तं विधेयं स्यात्, मनोदुष्प्रणिधानश्वाशक्यपरिहारं मनसोऽनवस्थितत्वादतस्सामायि
कप्रतिपत्तेस्सकाशात्तदप्रतिपत्तिरेव श्रेयसी, यदाहुः-- अविधिकृताद्वरमकृत 'मिति, नैवम् , 10 यतः सामायिकं द्विविधं त्रिविधेन प्रतिपन्नं, तत्र च मनसा वाचा कायेन च सावा न
करोमि न कारयामीति षट् प्रत्याख्यानानीत्ये कतरप्रत्याख्यानभङ्गेऽपि शेषसद्भावान्मिध्यादुष्कृतेन मनोदुष्प्रणिधानमात्रशुद्धेश्च न सामायिकात्यन्ताभावः, सर्वविरतिसामायिकेऽपि तथाभ्युपगतं, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम् , अतो न प्रतिपत्तेर
प्रतिपत्तिर्गरीयसीति । किश्च सातिचारादप्यनुष्ठानादभ्यासतः कालेन निरतिचारमनुष्ठान 15 भवतीति सूरयः । बाह्या अपि ' अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपात
मात्रेणोदबिन्दुरपि प्राणि निम्नतामादधाती'ति, न चाविधिकृताद्वरमकृतमिति युक्तमस्यासूयावचनत्वात्तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधौ यतनीयं, इदमेव श्रद्धालोर्लक्षणमिति ॥ प्रेष्यप्रयोगः प्रेष्यानयनं शब्दानुपातनं रूपानुपातनं
पुद्गलप्रेरणश्चेति पश्चातिचारा द्वितीयशिक्षापदव्रतस्य, प्रेष्यस्य भृत्यादेविवक्षितक्षेत्राद्वहिः 20 प्रयोजनाय व्यापारणं प्रेष्यप्रयोगः । स्वयं हि गमने दिवसप्रहरमुहूर्तादिपरिमाणस्य
देशावकाशिकस्य व्रतस्य भङ्गः स्यादित्यन्यस्य प्रेषणं, गमनागमनादिव्यापारजनितप्राण्युपमर्दो मा भूदित्यभिप्रायेण हि तव्रतं गृह्यते स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे
दोष इति प्रथमोऽतिचारः। प्रेष्यानयनं विवक्षितक्षेत्राद् बहिःस्थितस्य सचेतनादिद्रव्यस्य 25 प्रेष्येण विवक्षितक्षेत्रे प्रापणम् । स्वयं गमने हि व्रतभङ्गः स्यात् परेण त्वानयने न भन्न
इति बुझ्सा यदाऽऽनाययति सचेतनादिद्रव्यं तदाऽतिचार इति द्वितीयः । शब्दानुपातनं क्षुत्कासितादेश्रोत्रेऽवतारणम् , यथा विहितस्वगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजन उत्पन्ने विवक्षितक्षेत्राहितभङ्गभयात्स्वयं गन्तुं बहिस्थितश्चाह्वातुमशक्नुबन् वृतिप्राकारादिप्रत्यासन्नवर्तीभूय कासितादिशब्दमाह्वानीयानां श्रोत्रेऽनुपातयति, ते च