SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रावकधर्मः ] न्यायप्रकाशसमलकृते संयुक्ताधिकरणत्वं, मौखर्यञ्चति पञ्चातिचारास्तृतीयगुणव्रतस्य । तत्र हेतुः कामप्रधानो वाक्प्रयोगः कन्दर्पो मोहोद्दीपकं वा कर्मेति भावः । सामाचारी चात्र स्वस्य परस्य वा मोहोद्रेक जनकं हि वाक्यं श्रावकेण न वक्तव्यम् , अट्टहासोऽपि न कल्पते कत्तुं, यदि नाम हसितव्यमिति तदेवं प्रमादात्कुर्वतोऽतिचारः । कुत्सितं कुचति कुचभ्रूनयनोष्ठनासाकरचरणमुखविकारैस्संकुचतीति कुत्कुचः, कुदिति कुत्सायां निपातः, तस्य भावः कौत्कुच्यं, अनेकप्रकारा भण्डा- 5 दिविडम्बनक्रियेत्यर्थः । अथवा कौकुच्यमिति नामत्वे कुत्सितः कुचः संकोचादिक्रियाभाक् तद्भावः कौकुच्यमिति विग्रहः। तत्र परे येन हसन्ति, आत्मनश्च लाघवं भवति तादृशं श्रावकस्य न वक्तुं चेष्टितुं वा कल्पते, प्रमादात्तथाचरणे चातिचारः । भोगभूरिता भोगस्योपभोगस्य च स्नानपानभोजनचन्दनकुंकुमकस्तूरिकावस्त्राभरणादेः स्वस्वीयकुटुम्बव्यापारणापेक्षयाऽधिकत्वम्। भोगबहुत्वस्य प्रमादविषयात्मकत्वात्प्रमादाचरितस्यातिचारः । अत्र सामा- 10 चारी-यापभोग्यानि तैलामलकादीनि बहूनि गृह्णाति तदा तल्लौल्येन बहवः स्नातुं तडागादौ व्रजन्ति, सतश्च पूतरकादिवधोऽधिकः स्यात् स्यादेवं ताम्बूलादिष्वपि विभाषा, न चैवं कल्पते, तंत्र को विधिरुपभोगे ? स्नानेच्छुना तावद्ह एव सातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा, तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभिः स्नाति, तथा येषु पुष्पादिषु कुन्थ्वादयस्सम्भवन्ति तानि परिहरति, एवं सर्वत्र वाच्यमिति । 15 संयुक्ताधिकरणत्वं, अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणं उदूखलादि, संयुक्तञ्च तदधिकरणञ्चेति विग्रहः। उदूखलेन मुसलं, हलेन फालः, शकटेन युगं, धनुषा च शर इत्यादिरूप मित्यर्थः तद्भावस्संयुक्ताधिकरणत्वम् , एतच्च हिंस्रप्रदानव्रतस्यातिचारः । अत्रापि सम्प्रदायः श्रावकेण हि संयुक्तान्यधिकरणानि च न धारणीयानि, संयुक्ताधिकरणं हि यः कश्चिदाददीत, वियुक्त तु तत्र परः सुखेन प्रतिषेधितुं शक्यत इति । मौखर्य, मुखमस्यास्तीति मुखरस्तद्भावो 20 मौखर्य, धाष्टर्घप्रायमसभ्यासम्बद्धबहुप्रलपितम् , अयं पापोपदेशस्यातिचारः, मौखर्ये 'सति पापोपदेशसम्भवात्,अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्याने प्रवृत्तिरतिचार इति गुणवतस्यातिचाराः॥ योगदुष्प्रणिधानं, स्मृत्यनवधारणं, अनादरश्चेति शिक्षापदव्रतस्य प्रथमस्यातिचाराः । योगदुष्प्रणिधानं त्रिविधं, कायदुष्प्रणिधानं वचोदुष्प्रणिधानं मनोदुष्प्रणिधानमिति, कायस्य सावये प्रवर्त्तनं कायदुष्प्रणिधानं शरीरावयवानां पाणिपादादीनामनिभृततावस्थान- 25 मित्यर्थः, वर्णसंस्काराभावोऽर्थानवगमश्चापलञ्च वचोदुष्प्रणिधानम् , क्रोधलोभद्रोहाभिमानेादयः कायव्यासङ्गसम्भ्रमश्च मनोदुष्प्रणिधानमिति त्रयोऽतिचाराः। स्मृतेस्सामायिककरणावसरविषयायाः कृतस्य वा सामायिकस्य प्रबलप्रमादयोगादनवधारणं स्मृत्यनवधारणम् , मया कदा
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy