________________
: १४४ :
तत्त्वम्यायविभाकरे
[ सप्तमकिरणे
ऊर्ध्वास्तिर्यक्षु निश्चित मानोल्लंघनरूपास्त्रयः क्षेत्रवृद्धिः स्मृतिभ्रंशश्रोति पञ्च प्रथमगुणवतस्यातिचाराः, दिव्रतविषयस्य पूर्वादिदेशस्य क्षेत्रस्य ह्रस्वस्य पश्चिमादिक्षेत्रान्तरपरिमाण प्रक्षेपेण दीर्घकरणं क्षेत्रवृद्धिः, यथा केनाऽपि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवतिं योजनानि व्यवस्थाप्यान्य5 स्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचारश्चतुर्थः । स्मृतिभ्रंशो योजनशतादिरूपदिकपरिमाणविषयस्याति व्याकुलत्व प्रमादित्वमत्य पाटवादिना ध्वंसः तथाहि केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्फुटतया न स्मरति शतं वा पंचाशद्वेति, यदि पञ्चाशतमतिक्रामति तदाऽतिचारः, शतमतिक्रामतस्तु भङ्गः, सापेक्षत्वा10 निरपेक्षत्वाच्च तस्मात्स्मर्तव्यमेव गृहीतत्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽतिचारः ॥ सचित्तः सचित्तप्रतिबद्धः, संमिश्रः, अभिषवः, दुष्पकाहार इति द्वितीयगुणव्रतस्य पश्चाऽतिचाराः, चित्तेन सह वर्त्तते इति सचित्तः, येन सचित्तस्य परिहारः परिमाणं वा कृतमना भोगादिना सचित्तमधिकस चित्तं वा खादतस्तस्य सचित्ताहाररूपः प्रथमोऽतिचारः । सचित्तप्रतिबद्धस्सचेतनवृक्षादिसम्बद्धः, गुन्दादिः पक्कफलादिव सचित्तान्तर्बीज: खर्जूरादिः 15 तदाहारो हि सचिताहारवर्जकस्याना भोगादिना सावद्याहारप्रवृत्तिरूपत्वादतिचारः, अथवा बीजं त्यक्ष्यामि सचेतनत्वात्तस्य, कटाहं त्वचेतनत्वाद्भक्षयिष्यामीति घिया पक्कं खर्जूरादिफलं मुखे प्रक्षिपतरसचित्तवर्जकस्य सचित्तप्रतिबद्धाऽऽहारो द्वितीयः । सम्मिश्रः अर्धपरिणतजलादिराद्र कदाडिमबीज चूरक विर्भटिकादिमिश्र पूरणादिव तिलमिश्रो यवधानादिर्वा, एतदाहारोऽप्यनाभोगातिक्रमादिनाऽतिचारः । अथवा सम्भवत्सचित्तावयवस्यापक्ककणिक्कादेः 20 पिष्टत्वादिनाऽचेतनमिति बुद्ध्याऽऽहारः सम्मिश्राहारो व्रतसापेक्षत्वादतिचार इति तृतीयः । अभिषवः सुरासौवीरकादिः सुरामध्वाद्यभिष्यन्दिवृष्यद्रव्योपयोगो वा, अयमपि सावद्य(हारवर्जकस्यानाभोगादिनाऽतिचार इति चतुर्थः । दुष्पकाहारः अर्द्धस्विन्न पृथुकतन्दुलयवगोधूमस्थूलमण्डककङ्कडुकफलादिरैहिक प्रत्यवाय कारी यावता चांशेन सचित्तस्तावता परलोकमप्युपहन्ति, पृथुकादेर्दुष्पकतया सम्भवत्सचे तनावयवत्वात्यकेनाचेतन इति भुञ्जान 25 स्यातिचार इति पञ्चमः, अभी पश्च भोजनमाश्रित्य त्यक्तव्याः, भोगोपभोगोत्पादकं व्यापार(माश्रित्य तु पञ्चदशातिचरा धर्मसंग्रहादिग्रन्थेभ्योऽवसेयाः ॥ कन्दर्पः, कौत्कुच्यं, भोगभूरिता,
२. स्मृतिभ्रंशादनाभोगाद्वा यदि परिमाणमतिक्रान्तो भवेत्तदा ज्ञाते तेन निर्वर्त्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथ नाज्ञया कोऽपि व्रजेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते, तीर्थयात्रादिधर्मनिमित्तं तु नियमित क्षेत्रात्परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमनादिति सम्प्रदायः ॥