________________
श्रावकधर्मः ]
म्यायप्रकाशसमलङ्कृते
: १४३ :
यापनायां सम्भवन्त्यामनङ्गक्रीडनका मतीव्ररागावर्थतः प्रतिषिद्धौ, तत्सेवने च न कश्चिद्गुणः प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रतिषिद्धाचर - णाद्भङ्गो नियमाबाधनाश्चाभङ्ग इत्यतिचारावेतौ ॥ धनधान्यसंख्यातिक्रमः, क्षेत्र वास्तुसंख्यातिक्रमः, रूप्यस्वर्णसंख्यातिक्रमः, गोमनुष्यादिसंख्यातिक्रमः, कुप्यसंख्यातिक्रमश्चेति पश्च पञ्चमव्रतातिचाराः | धनधान्यादीनां यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं 5 तस्योल्लंघनरूपा एते, अतिचारा एते न साक्षात् गृहीतसंख्यातिक्रमरूपाः किन्तु बन्धनयोजनदानगर्भभावैः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एव । तत्र धान्यस्य बन्धनात्संख्यातिक्रमो यथा - कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृह्णतो धनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनान्नियंत्रणात् रज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तह एव स्थापय- 10 तोऽतिचारः | क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमीलनाद्गृहीत संख्यातिक्रमोऽतिचारो भवति, तथाहि एकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृतिभिन्त्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कञ्चिद्विरतिबाधनाच्चाऽतिचारः । रूप्य सुवर्णस्य दानात्वितरणाद् गृहीत संख्याया अतिक्रमो यथा केनाऽपि चातुर्मासाद्यवधिना रूप्यादिसंख्या 15 विहिता, तेन च तुष्ट राजादेः सकाशात्तदधिकं तल्लब्धं तचान्यस्मै व्रतभङ्गभयाद्ददाति, पूर्णेऽवधौ ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति । गोमनुष्यादेर्गर्भतः संख्यातिक्रमो यथा केनाऽपि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं तेषां च संवत्सराद्यवधिमध्य एव प्रसवेऽधिकद्विपदादिभावाद्वतभङ्गः स्यादिति तद्भूयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च 20 कथञ्चिद्व्रतभङ्गादतिचार: । कुप्यस्य भावतस्संख्यातिक्रमो यथा कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात्तेषां द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरणात्स्वाभाविक संख्याबाधनाच्चातिचार इति उक्ता अणुव्रतानां पश्च पञ्चातिचारास्संक्षेपेण ||
१. धनं गरिमधरिममेयपारिच्छेद्यभेदाच्चतुर्धा, यदाह - ' गणिमं जाइफलफोफलाई धरिमं तु कुंकुमगुडाई । मेर्ज चोपडलोणाइ रयणवत्थाइ परिच्छेजं ' इति, धान्यं चतुर्विंशतिधा, सप्तदशधा वा । • सस्योत्पत्तिभूमिः क्षेत्रं सेतुकेतूभयात्मकभेदात्रिधा, अरघट्टजलासेच्यं सेतुक्षेत्रं, वारिदजलनिष्पाद्यधान्यं केतुक्षेत्रं, उभयजलनिष्पाद्य सस्यमुभयात्मकं । वास्तु गृहादि प्रामनगरादि च गृहादि त्रेधा खातं भूगृहादि उच्छ्रितं प्रासादादि उभयविधमुभयं । रूप्यं रजतं स्वर्ण उभयमपि घटितमघटितञ्चानेकप्रकारम् । कुप्यं कांस्यलोहताम्रसीसकादिकम् ॥