________________
तत्त्वन्यायविभाकरे
[ सप्तमकिरणे परविवाहकरणं, अनात्तागमः , इत्वरात्तागमः, अनङ्गक्रीडनं, कामतीव्ररागश्चेति पञ्चातिचाराश्चतुर्थव्रते । स्वस्वापत्यव्यतिरिक्तानां कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं परविवाहकरणम् । इदश्च स्वदारसन्तोषवता स्वकलत्रात्परदारवर्ज केन च स्वकलत्र
वेश्याभ्यामन्यत्र मनोवाक्कायमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं तदा परविवाह5 करणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति तद्बती तु मन्यते, विवाह एवायं मया विधीयते
न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिचारः । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा संभवतीति । अनात्तागमः, अनात्ता-अपरिगृहीता वेश्या स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा, तस्या गम आसेवनम् , अनाभोगादिनाऽतिचारोऽयं स्वदारसन्तोषिणः । इत्वरात्तागमः, इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः, 10 सा चासावात्ता च कश्चित्कालं भाटीप्रदानादिना सङ्ग्रहीता, इत्वरात्ता, इत्वरकालं वाऽऽत्ता
इत्वरात्ता तस्या गम आसेवनमित्वरात्तागमः, अयञ्च भाटीप्रदानत्वादित्वरकालस्वीकारेण स्वकलत्रीकृत्य वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादतिचारः, अयमपि स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनातायास्त्वनाथतयैवापरदारत्वात् शेषास्त्वतिचारा द्वयोरपि ॥ अनङ्गक्रीडनं, अनङ्गः कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा, वेदोदयात् योषितोपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्याऽपि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गो नान्यः कश्चित्, तेन तस्मिन् वा क्रीडनं रमणमनङ्गक्रीडनम् , अथवा स्वलिङ्गेन कृतकृत्योऽपि काष्टपुस्तफलमृत्ति
काचर्मादिघटितैराहार्यैः प्रजननैर्योषितामवाच्यदेशं पुनः पुनः कुनाति केशाकर्षणप्रहारदान20 दन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, यद्वा
अङ्गं देहावयवो मैथुनापेक्षया योनिर्मेहनञ्च, तद्व्यतिरिक्तान्यनङ्गानि, कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति । कामतीव्ररागः, कामे तीब्रो रागः, अतीवाऽऽग्रहः परित्यक्तान्यसकलव्यापारस्य मैथुनेऽध्यवसायता,योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महती वेलां निश्चलो मृत इवास्ते चटक इव चटकां मुहुमुहूंर्योषामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते इति । अत्र च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहि. ष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थ स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च
१. ननु स्वापत्यविवाहने कथं न दोषः ? परविवाहनवदिति चेत्सत्यम् , निजकन्यायाः परिणयनाभावे स्वच्छन्दचारिणीत्वप्रसङ्गेन शासनोपघातसम्भवात् , कृते तु विवाहे पतिनियंत्रितत्वेन तदसम्भवादिति। सत्यपि कलत्रे तत्र विशिष्ट सन्तोषाभावात्स्वयं पुनः कलत्रान्तरस्य विवाहनं परकलविवाहनं स्वदारसन्तोषवतोऽतिचार इति केचित् ॥