________________
श्रावकधर्मः ]
न्यायप्रकाशसमलङ्कृते भावनया व्रतसापेक्षस्यातिचार एव । विश्वासमुपगतानां मंत्रणस्य प्रकाशकरणं विश्वस्तमंत्रकरणम् , अस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारता घटते तथापि मंत्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मंत्रयित्वा मन्त्रं भिनत्तीत्यनयोर्भेद इति ॥ स्तेनाहृतग्रहः स्तेनप्रयोगः । मानविप्लवः, शत्रुराज्यगमनं, प्रतिरूपव्यवहार इति तृतीयव्रतस्यातिचाराः। चोरानीतपदार्थानां मूल्यादिना ग्रहणं स्तेनाहृतग्रहः, स्तेनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्रहणं चौरो भवति, यतो नीतिः · चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति चौरस्सप्तविधः स्मृतः' इति ततश्चौर्यकरणागतभङ्गः, वाणिज्यमेव क्रियते मया न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाभंगरूपः प्रथमोऽ- 10 तिचारः । स्तेनानामभ्यनुज्ञानं हरत यूयमित्यादिरूपेण, स्तेनोपकरणानां वा कुशिकाकतरिकाघर्घरिकादीनामर्पणं विक्रयणं वा स्तेनप्रयोगः। अत्र च यद्यपि चौर्य न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्य स्तेनप्रयोगो व्रतभङ्ग एव, तथापि 'किमधुना यूयं नि
र्व्यापारास्तिष्ठत, यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽऽहं विक्रेष्ये' इत्येवंविधवचनैश्चोरान व्यापारयतः स्वकल्प- 15 नया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः । मानस्य कुडवादिपलादिहस्तादेः हीनाधिकत्व करणं मानविप्लवः, हीनमानेन दानमधिकमानेन च ग्रहणं तत्त्वतश्चौर्यमेव, न चैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः। विरुद्धयो राज्ञोर्यद्राज्यं तत्र राज्ञाऽननुज्ञाते गमनं शत्रुराज्यगमनम् । शत्रुराज्यगमनस्य यद्यपि स्वस्वामिनाऽननुज्ञातस्यादत्तादानरूपत्वेन तदनुष्ठातृणाश्च चौर्यदण्डयोगेनादत्तादानरूपत्वाद्तभङ्ग एव 20 तथापि शत्रुराज्यगतिं कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वालोके च चोरोऽयमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचारः । सदृशवस्तुना व्यवहरणं प्रतिरूपव्यवहारः, यथा व्रीहीणां पलञ्जि, घृतस्य वसा, तैलस्य मूत्रं, हिङ्गोः खदिरादिवेष्टः चणकादिवेष्टं गुन्दादि वा, कुडमस्य कृत्रिमं तत् कुसुम्भादि वा, मञ्जिष्ठादेश्चित्रकादि, तथा विधाय विक्रयणं, यद्वाऽपहृतानां 25 गवादीनां सशृङ्गाणां अग्निपक्ककालिङ्गीफलस्वेदादिना शृङ्गाण्यधो मुखानि प्रगुणानि तिर्यग्वलितानि वा विधायान्यत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः । मानविप्लवः प्रतिरूपक्रिया च परव्यसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्य प्रसिद्धं मया तु वणिक्कलैव कृतेति भावनया व्रतरक्षणोद्यतत्वादतिचार इति ॥