________________
: १४० : तत्त्वन्यायविभाकरे
[ सप्तमकिरणे कषायोदयादेव विज्ञेयस्तेन विनयग्रहणार्थ स्वपुत्रादीनां ताडनेऽपि न क्षतिः । तेषामेव रज्वादिना नियंत्रणं बन्धः, सोऽपि पुत्रादीनां क्रियत इति प्रबलक्रोधादेवेति भाव्यम् । छविश्शरीरं त्वग्वा, तस्याश्छेदः, छविच्छेदः, कर्णनासिकागलकम्बलपुच्छादिकर्त्तनम् , अयमपि क्रुध इत्येव
तेन पादवल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्गः । अतिशयितो भारोऽतिभारः, 5 वोढुमशक्य इत्यर्थः,तस्यारोपणं गोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापन, इहापि क्रोधाल्लोभावति विज्ञेयम् । अशनपानादीनां निषेधः क्रोधाद्भक्तपानव्यवच्छेदः, एते पश्चाऽतिचारा नाममात्रेणोक्ता विस्तरस्तु तत्तद्वन्थेभ्योऽवसेयः, एवमग्रेऽपि, सहसाभ्याख्यानं मिथ्यो. पदेशो गुह्यभाषणं कूटलेखो विश्वस्तमंत्रभेदश्चेति द्वितीये व्रते पश्चातिचाराः, अविमृश्यास
होषाध्यारोपणं सहसाभ्याख्यानं यथा चौरस्त्वं पारदारिको वेत्यादि । अन्ये त्वस्य स्थाने रहस्या10 भ्याख्यानं पठन्ति, तदा रह एकान्तस्तत्र भवं रहस्यं, रहस्येनाभ्याख्यानमसदध्यारोपणं यथा
वृद्धायै वक्ति-अयं ते भर्ता तरुण्यामतिप्रसक्तः, तरुण्यै वक्ति-अयं ते भर्ती प्रौढचेष्टितायां मध्यमवयसि प्रसक्त इत्यादि रहस्याभ्याख्यानमिति । असदुपदेशो मिथ्योपदेशः, प्रतिपन्न सत्यव्रतस्य हि परपीडाकरं वचनम सत्यमेव, ततः प्रमादात् परपीडाकरणे उपदेशोऽतिचारः,
यथा वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इत्यादि, यद्वा यथास्थितोऽर्थस्तथोपदेशः साधी15 यान् , विपरीतस्त्वयथार्थोपदेशो यथा परेण सन्देहापन्नेन पृष्टे न तथोपदेशः, यद्वा विवाहे
स्वयं परेण वाऽन्यतराभिसन्धानोपायोपदेश इति । यन्न सर्वस्मै कथनीयं तस्यानधिकृतेनैवाकारेङ्गितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणं, यथा-एते हीदमिदं च राजविरुद्धादिकं मंत्रयन्ते अथवा गुह्यभाषणं पैशुन्यं, यथा द्वयोः प्रीतो सत्यामेकस्याकारादिनोपलभ्याभि
प्रायमितरस्थ तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवत् 20 हास्यादिनैवेति । अन्यसदृक्षाक्षरमुद्राकरणं कूटलेखः, एतच्च यद्यपि कायेनासत्यां वाचं
न वदामि नवा वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमिति
१. नन बन्धादयो नातिचारा:, श्रावण हिंसाया एव प्रत्याख्यातत्वात हिंसाविरतरखण्डितत्वाच्च तेषामपि प्रत्याख्यातत्वे च तत्करणे विरतिखण्डनाद् व्रतभङ्ग एव स्यात् तथा व्रतेयत्ताभङ्गोऽपि स्यात्प्रतिव्रतमतिचाराणामाधिक्यादिति चेन्मैवम् , हिंसामात्रस्य प्रत्याख्यातत्वेऽपि तेषामप्यर्थतः प्रत्याख्यातत्वात् हिंसोपायत्वात्तेषाम् । न च तत्करणे व्रतभङ्ग एव नातिचार इति वाच्यम् , देशस्यैव भञ्जनाद्देशस्यैव पालनादतिचारव्यपदेशात् । द्विविधं हि व्रतमन्तवृत्त्या बहिवृत्त्या च, यदा मारयामीति विकल्पविरहकालीनक्रोधादिप्रयुक्तनिरपेक्षवधादिप्रवृत्तिः हिंसाऽभावश्च तदा निर्दयतया विरत्यनपेक्षप्रवृत्तितयाऽन्तवृत्त्या तस्य भंगो हिंसाया अभावाच बहिर्वृत्त्या पालनमिति ॥ २. अविमृश्यकारित्वं सहसाकारः, असावधानताऽनाभोगः, व्रतभङ्गाय केनचिनिमंत्रणे कृतेऽप्रतिषेधादतिक्रमः, गमनादिव्यापारे व्यतिक्रमः, क्रोधाद्वधबन्धादावतिचारः, जीवहिंसादौ स्वनाचार इति ।