________________
न्यायप्रकार
श्रावकधर्मः ] वा ददाति, तस्मात् पूर्व साधुभ्यो दत्त्वा पश्चात्पारयितव्यम् । कथम् ? यदा भोजनकालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधूनिमंत्रयते । भिक्षां गृहीते 'ति । साधूनाश्च तं प्रति का प्रतिपत्तिः ?, उच्यते, तदैकः पटलमन्यो मुखान्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वा भवन्तु इति । यदि स च प्रथमायां पौरुष्यां निमंत्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानीयस्ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न 5 गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्बाढं लगेत् तदा गृह्यते संस्थाप्यते च, यो वोद्बाट. पौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण सह संघाटको व्रजति, एको न वर्तते प्रेषयितुम् , साधू पुरतः श्रावकस्तु मार्गे गच्छति, नतोऽसौ गृहं नीत्वा तावासनेनोपनिमंत्रयते, यदि निविशेते, तदा भव्यं, अथ न निविशेते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानश्च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवाऽऽ- 10 स्ते यावदीयते, साधू अपि पश्चात्कर्मपरिहारार्थ सावशेषं गृहीतः, ततो वन्दित्वा विसर्जयति, अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुङ्क्ते । यदि पुनस्तत्र प्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति । यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति, एष पोषधपारणके विधिः, अन्यदा तु दत्त्वा भुते भुक्त्वा वा ददातीति द्वादशव्रतानि श्रावकाणाम् । एतानि च निरतिचारतया परिपालितानि 15 विशेषतो गृहिधर्मो भवतीत्यतिचारा विज्ञेयाः, तत्र पञ्च पञ्चातिचाराः प्रतिव्रतं भवन्ति । ननु संज्वलनकषायोदयप्रभवत्वादतिचाराणामप्रत्याख्यानप्रत्याख्यानोदयवतां सम्यग्दृष्टिदेशविर तानां ते कथं सम्भवन्ति, संज्वलनकषायोदयवतस्सर्वविरतस्यैव तेषां संभवात् , देशविरतेरल्पीयस्त्वात् कुन्थुशरीरे व्रणाद्यसम्भववत्, इति चेन्मैवम् , उपासकदशादिषु प्रतिव्रतमतिचारपञ्चकाभिधानात् सर्वविरतौ संज्वलनोदयेऽतिचारा भवन्ति शेषाणामुदये मूलच्छेद्यमेव 20 स्यादित्यभिप्रायेण सर्वविरतावतिचारहेतुत्वेन संज्वलनोदयस्य शास्त्रे प्रोक्तत्वात् , न तु संज्वलनोदयमात्रजन्यत्वमतिचाराणाम् , ' सव्वेवि अ अइआरा संजलणाणं तु उदयओ हुंति । मूलछिज्जं पुण होइ बारसण्हं कसायाणं' इति । सर्वविरतेस्तृतीयानामुदये मूलच्छेदो देशविरतेर्द्वितीयानां सम्यक्त्वस्य प्रथमानामिति गाथापश्चार्धस्याभिप्रायवर्णनेऽपि यथा संज्वलनोदये सर्वविरतिरवाप्यते तत्रातिचाराश्च भवन्ति तथा प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, 25 अप्रत्याख्यानोदये सम्यक्त्वं तदतिचाराश्च भवन्तु न्यायस्य समानत्वात् , विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुणलाभस्याप्रतिबन्धकस्तदतिचाराणाञ्च निमित्तं भवति संज्वलनोदयवदिति । तत्र प्रथमत्रतस्य प्रकृष्टक्रोधोदयात् वधः, बन्धः, छविच्छेदः, अतिभारारोपणं, भक्त पानव्यवच्छेदश्चेति पश्चातिचारा भवन्ति, क्रोधाच्चतुष्पदादीनां लगुडादिना ताडनं वधः, प्रबल