________________
:१३४ : तत्त्वन्यायविभाकरे
[ सप्तमकिरणे वचनं पञ्चमम् , अस्य इतरपापसमर्थनरूपत्वेन पूर्वालीकेभ्यः पार्थक्येनोपन्यासः । मृषावादो हि क्रोधमानमायालोभरागद्वेषहास्यभयक्रीडाब्रीडारत्यरतिदाक्षिण्यमौखर्यविषादादिभिः सम्भवति, सत्यमपि पीडाहेतुश्चेन्मृषावाद एव, सद्भयो हितं सत्यमिति व्युत्पत्यर्थाभावात् । स
च मृषावादः स्थूलसूक्ष्मभेदेन द्विविधः, स्थूलश्श्राद्धस्य परिहार्य एव, स पञ्चविध उपर्युक्त एव, 5. सूक्ष्ममृषावादे तु यतना । असत्यभेदा भूतनिह्नवादयः । एतद्तफलन्तु विश्वासयशस्स्वार्थसिद्धिप्रियाऽऽदेयाऽमोघवचनतादीति द्वितीयमणुव्रतम् ॥ चौर्यव्यवहारनिमित्तस्य अदत्तस्य परद्रव्यस्य ग्रहणान्निवृत्तिस्तृतीयमणुव्रतम् । अदत्तता च स्वामिजीवतीर्थकरगुरुभिर्भाव्या । यथा यद्वस्तु तत्स्वामिनाऽवितीर्णं तत्स्वाम्यदत्तं, यच्च स्वकीयस्यापि सचित्तफलादेविदारणं
तत्फलजीवेन निजप्राणानर्पणाजीवादत्तं, संयतानामाधाकर्मादि श्रावकाणाश्च प्रासुकमनन्त10 कायभक्ष्यादिकं तीर्थकराननुज्ञातत्वात्तीर्थकरादत्तं, सर्वदोषमुक्तमपि यद्गुरूननभिमंत्र्य भुज्यते
तद्र्वदत्तमुच्यते । अत्र स्वाम्यदत्तेनाधिकारः, तच्च द्विविधं स्थूलसूक्ष्मभेदात्, अत्यन्तस्थूलविषयं कनकादिकं क्षेत्रखलादावल्पमपि फलादिकं वा दुष्टाध्यवसायपूर्वकं ग्रहणं स्तैन्यव्यवहारकारणत्वात्स्थूलं तद्भिन्नञ्च सूक्ष्मं स्वाम्यननुज्ञया तृणकाष्ठादिग्रहणरूपम् ।
तत्र श्राद्धस्य सूक्ष्मे यतना स्थूलात्तु निवृत्तिः । फलश्चास्य व्रतस्य सर्वजनविश्वास साधुवाद15 समृद्धिवृद्धिस्थैर्यैश्वर्यस्वर्गादिकमिति तृतीयमणुव्रतम् ॥ स्वकीयकलत्रमात्रसन्तोषः स्वीया
न्ययोषित्परित्यागो वा श्राद्धानां चतुर्थं मैथुनाणुव्रतम् । अन्ययोषित्पदेन स्वान्यमनुष्याणां देवानां तिरश्वाश्च योषितः परिग्रहः, अपरिगृहीता देव्यस्तिरभ्यश्च काश्चिद्यद्यपि सङ्ग्रहीतुः परिणेतुश्चाभावेन वेश्याकल्पा एव भवन्ति, तथापि परजातीयभोग्यत्वात्परदारा एव ता
इति वर्जनीयाः । मैथुनं हि सूक्ष्मस्थूलभेदभिन्नं, कामोदयेनेन्द्रियाणामीषद्विकारस्सूक्ष्मम् । 20 योगैरौदारिकादिस्त्रीणां सम्भोगस्थूलम् , यद्वा ब्रह्मचर्य द्विधा सर्वतो देशतश्च, तत्र योगत्र
येण निखिलयोषितां सर्वथा सङ्गत्यागः सर्वतो ब्रह्मचर्य, तदितरत्तु देशतः । तत्र सर्वतोऽशक्तौ देशतः, तच्च स्वदारसन्तोषरूपं वा परदारवर्जनरूपं वा । गृहिणस्वदारसंतोषे ब्रह्मचारिकल्पत्वमेव परदारगमने च वधबन्धादयो दोषाः स्फुटा एवेति चतुर्थमणु
व्रतम् । नवविधपरिग्रहेच्छायास्सर्वतस्त्यागासमर्थेन श्रावकेणेयत्ताकरणं पञ्चममणुव्रतम् ॐ तत्र धनधान्यक्षेत्रवास्तुरूप्यसुवर्णकुप्यद्विपदचतुष्पदरूपा नव परिग्रहाः । परिग्रहविरतिर्द्विधा
सर्वदेशभेदात् । मूर्छायास्सर्वथा सर्वभावेषु त्यागस्सर्वतः, तदितरो देशतः, तत्र सर्वतस्तत्प्रतिपत्तेश्श्रावकस्य सामर्थ्याभावे देशत इच्छाप्रसरनिरोधः कार्यः । इच्छाप्रसरो हि संसारिणां स्वाभाविकोऽतस्तदियत्ताकरणं महते गुगाय भवति, यथा यथा ह्यल्पो लोभः परिग्रहारम्भश्च तथा तथा सुखं प्रवर्धते धर्मस्य च संसिद्धिर्भवति । एतद्रूतस्य सन्तोषसौख्य