________________
श्रावकधर्मः ] न्यायप्रकाशसमलते
: १३३ : स्यात्स्यादविशेषः प्रव्रजिताप्रबजितयोस्तद्विषये । द्विविधं द्विविधेनेति द्वितीयो भङ्गः, अस्योत्तरभङ्गास्त्रयः, तत्र द्विविधं स्थूलहिंसादिकं न करोति न कारयति द्विविधेन मनसा वचसेत्येकः, मनसा कायेनेत्यपरः, वाचा कायेनेत्यन्यः, तत्राद्ये मनसाऽभिसन्धिरहित एव हिंसादिकं वाचाऽब्रुवन्नेवासंज्ञिवत्कायेन दुश्चेष्टितादीनि करोति, द्वितीये मनःकायाभ्यामभिसन्धिदुश्चेष्टितादि परिहरन्नेवानाभोगाद्वा वाचैव हन्मि घातयामि चेति ब्रूते । तृतीये च मनसै- 5 वाभिसन्धिकृत्य करोति कारयति च । अत्र सर्वत्र त्रिभिरनुमतिरस्त्येव । द्विविधमेकेनेति तृतीयः, अत्राऽप्युत्तरभङ्गास्त्रयः, द्विविधं करणं कारणश्चैकविधेन मनसा वा वचसा वा कायेन वेति । एकविधं त्रिविधेनेति चतुर्थः, अत्र चोत्तरौ द्वौ भङ्गो, तत्रैकविधं करणं वा कारणं वा मनसा वाचा कायेन चेति । एकविधं द्विविधेनेति पञ्चमः, उत्तरभङ्गाश्च षट् एकविधं करणं वा कारणं वा मनोवाग्भ्यां वा मनःकायाभ्यां वा वचःकायाभ्यां वेति । एकविध- 10 मेकविधेनेति षष्ठः, अवान्तरभङ्गाष्षट् , एकविधं करणं वा कारणं वा एकविधेन मनसा वा वाचा वा कायेन वेति, इत्येवं मूलभङ्गाः षट् । उत्तरगुणान् गुणव्रतशिक्षाव्रतरूपानाश्रित्य सामान्येनैक एव भेदो विवक्षित इति सप्तमोऽविरतश्चाष्टम इति । तत्र स्थूलानां निरपराधानां निरपेक्षं सङ्कल्पपूर्वकं प्राणिनां प्राणव्यपरोपणरूपां हिंसां प्रत्याख्यातीतीदं प्रथममणुव्रतम् , श्राद्धानां सूक्ष्मपृथिव्यादिप्राणिवधान्निवृत्त्यभावेन स्थूलानामित्युक्तम् , कृष्याद्यार- 15 म्भजन्यद्वीन्द्रियादिजीवप्राणव्यपरोपणस्य शरीरकुटुम्बनिर्वाहान्यथानुपपत्त्या सम्भवेन सङ्कल्पपूर्वकमित्युक्तम् । सापराधे गुरुलाघवचिन्तनपूर्वकतत्प्रवृत्तिनिवृत्तिसम्भवेनानियमात् निरपराधिनामित्युक्तम् , निरपराधेऽपि वाह्यमानमहिषवृषहयादौ पाठादिप्रमत्तपुत्रादौ च वधबन्धादिकरणान्निरपेक्षमित्युक्तम् । इत्यहिंसाणुव्रतं प्रथमम् । निखिलद्विपदचतुष्पदापदद्रव्यविषयकालीकानि रक्षणाद्यर्थमन्यन्यस्तस्यापलापवचनं देयादेयविषयकमुत्कोचमत्सरादिप्रयुक्तं 20 प्रमाणपूर्वकं वचनञ्च क्लिष्टाशयोद्भूतत्वात्स्थूलासत्यरूपं तस्माद्विरमणं द्वितीयमणुव्रतम् , यथा कन्यालीकं द्विपाद्विषयकं, वस्तुतोऽतथाभूतां द्वेषादिना विषकन्येयं दुश्शीलेयमविषकन्येयं सुशीलेयमित्यादिरूपेण कथनमेकविधमलीकं, गवालीकं चतुष्पाद्विषयमत्राप्यतथाभूतां गां बहुक्षीरेयमल्पक्षीरेयमित्यादिरूपेण वर्णनं द्वितीयमलीकं, भूम्यलीकमपदद्रव्यविषयं, इहापि परकीयां भूमिमात्मीयामिति स्वीयां परकीयामिति ऊपरं क्षेत्रमनूषरमनूषरञ्चोषरमिति वदत- 25 स्तादृग्वचनं तृतीयमलीकं, न्यासनिह्नवो रक्षणायान्यसमर्पितानां सुवर्णादीनामपलापवचनरूपं चतुर्थम् , अपदद्रव्यविषयकालीकेऽस्यान्तर्भावसम्भवेऽपि न्यासनिह्नवस्य महापापत्वात्पृथगुक्तिः,अदत्तादानेऽस्याऽन्तर्भावसम्भवेऽपि क्रियाप्राधान्यात्तस्मादस्य वचनप्राधान्येनात्रोक्तिः । कूटसाक्ष्यं लभ्यदेयविषये प्रमाणीकृतस्योत्कोचमत्सरादिनाऽहमत्र साक्षीत्येवं कूटं वदतस्तादृशं