________________
: १३२ :
तस्वन्यायविभाकरे
सप्तमकिरणे
1
1
न्यमध्यमोत्कृष्टास्वेकतमा देशविरतिरेव जायते यत्र तद्देशविरतगुणस्थानमित्यर्थः । विरताविरते ह्यष्टौ भङ्गाः, व्रतानि यो न जानाति नाभ्युपगच्छति न च पालनार्थं यतते, यथाऽविरतास्सर्वे । यो न जानाति न चाभ्युपगच्छति परं तु पालयति यथाऽज्ञानतपस्वी । यो न जानाति, अभ्युपगच्छति न तु पालनार्थं यतते यथाऽज्ञपार्श्व5 स्थसाधुः । यो न जानाति, अभ्युपगच्छति पालयति च यथाऽगीतार्थः । यो जानाति, नाभ्युपगच्छति, न च पालनाय यतते यथा श्रेणिकादयः । यो जानाति नाभ्युपगच्छति पालयति यथा - अनुत्तरदेवः । यो जानाति स्वीकुरुते न च पालयति यथा संविप्रपाक्षिकः । यो जानाति स्वीकरोति पालयति च यथा व्रतीति । तत्र प्रथमादिसप्तभङ्गेषु व्रतपरिपालनेऽपि निष्फलत्वेनाविरत एव भवति, सम्यग्ज्ञानग्रहणपूर्वक पालन एव साफ10 ल्यात् । आद्यचतुर्षु हि सम्यग्ज्ञानाद्यभावः, ततस्त्रिषु सम्यग्ज्ञानसत्वेऽपि सम्यगभ्युपगमपालनाद्यभावः । अन्तिमे तु देशतः पापाद्विरतो देशविरतोऽपि भवति । यावद् द्वादशव्रतमेकद्वित्र्यादिव्रतधारणात् । यत्र परमेष्ठिनमस्कार मात्रनियमधारण माकुट्टी स्थूलहिंसादित्यागो मद्यमांसादित्यागश्च सा जघन्या देशविरतिः । यत्र धर्मयोग्यतागुणा गृहस्थोचितानि षट् कर्माणि द्वादशव्रतपालनं सदाचारश्च भवति सा मध्यमा । सचित्ताहारवर्जनं सदैकासनभोजनमनिन्द्य15 ब्रह्मचर्यव्रतपालनं महाव्रताङ्गीकारस्पृहा च यत्र भवति सोत्कृष्टा देशविरतिरिति बोध्यम् ॥ सर्वसावद्यस्यैकदेशाद्विरतस्येति, अवद्यं पापं तेन सह वर्त्तत इति सावद्यं, हिंसाचौर्यादि - गर्हितं कर्म, सर्वेभ्यः सावद्येभ्यो विरतः प्रमत्तसंयतादिरपीत्येकदेशेनेत्युक्तम्, प्राणातिपाताद्यन्यतमो देशः, निरपराधविनाशनादिरूपतदेकदेशो वा ताभ्यां विरत एकद्रयाद्यणुव्रतधरः श्रावको द्वादशत्रतधारीति भावः तानि च व्रतानि अणुव्रतानि पञ्च गुणत्रतानि 20 त्रीणि चत्वारि च शिक्षात्रतानि । तत्राणूनि लघूनि व्रतानि प्राणातिपातादिविरमणरूपाणीत्यणुत्रतानि महाव्रतापेक्षयैषा मल्पविषयत्वात्सर्वविरतापेक्षयाऽल्पगुण पुरुषानुष्ठानरूपत्वाद्वा महाव्रतनिरूपणोत्तरकालमेवैषां निरूपणीयत्वादनु पश्चाद्वर्ण्यमानानि यानि व्रतानि तान्यणुव्रतानि, महाव्रतप्रतिपत्त्य समर्थायैतन्निरूपणस्यावश्यकत्वात् । तत्र हिंसा प्रमादप्रयुक्तप्राणव्यपरोपणरूपा स्थूलसूक्ष्मभेदेन द्वैविध्यमश्नुते, स्थूलत्वं यन्मिथ्यादृष्टीनामपि हिंसात्वेन प्रसिद्धं 25 त्रसविषयकत्वाद्वा, सूक्ष्मत्वञ्च पृथिव्यादिविषयम्, तथैव मृषावादादावपि भाव्यम्, तेभ्यस्स्थूलेभ्यो विरतिः पञ्चाणुत्रतशब्दवाच्या । साऽपि व्रतभङ्गेन भाव्या बाहुल्यात्, सामान्येन विरताविरतभेदेन श्राद्धानां द्वैविध्येऽपि विशेषतो द्विविधत्रिविधादिभङ्गभेदेनाष्टविधास्ते तथाहि-द्विविधं कृतं कारितं चेति, त्रिविधं मनसा वाचा कायेन यथा स्थूलहिंसादिकं स्वयं न करोम्यन्यैर्वा न कारयामि मनसा वाचा कायेनेत्यभिग्रहवान् प्रथमः, नास्त्यस्यानुमति 30 निषेधः, अपत्यादिपरिग्रहस्य सद्भावात्तै हिंसादिकरणे तस्यानुमतिप्राप्तेः, यद्यनुमतिरप्यस्य