________________
देशविरत० ]
न्यायप्रकाशसमलङ्कृते क्त्वं भवति ॥ अस्य गुणस्थानस्योत्कृष्ट स्थितिमाह-उत्कृष्टत इति मनुजभवेति । क्षायोपशमिकमाश्रित्येदम् , क्षायिकमाश्रित्य तु त्रयस्त्रिंशत्सागरोपमाणि साधिकानि । तथाहि कश्चिदितः स्थानादुत्कृष्टस्थितिष्वनुत्तरविमानेषूत्पन्नः, तत्र चाऽविरतसम्यग्दृष्टित्वेन त्रयस्त्रिंशत्सागरोपमाणि स्थितस्ततश्श्युत्वाऽत्राऽप्याऽऽयातो यावदद्यापि विरतिं न लभते तावत्तद्भावेनैव स्थित इति मनुष्यभवसम्बद्धकतिपयवर्षाधिकत्रयस्त्रिंशत्सागरोपमत्वं विज्ञेयम् । कस्य कथं सम्यक्त्वमुप- 5 जायत इत्यत्राह-भव्येति । भव्यसंज्ञिपञ्चेन्द्रियप्राणिनो यथावद्भगवदुदितेषु जीवादिपदार्थेषु निसर्गादासादितसुनिर्मलत्वगुणरूपात्मस्वभावात् , उपदेशाद्वा सद्गुरूपदिष्टशास्त्रश्रवणाद्वा सम्य
श्रद्धास्वरूपं सम्यक्त्वं समुन्मिषतीति भावः । दशविधमेतत् सम्यक्त्वमात्रस्य निसर्गोपदे. शाज्ञासूत्रबीजाभिगमविस्तारक्रियासंक्षेपधर्मप्रयुक्तत्वात् । उपदेशादिकमन्तरेण क्षयक्षयोपशमादिना जीवाजीवादिपदार्थविषयिणी रुचिनिसर्गसम्यक्त्वम् । परोपदेशप्रयुक्तजीवादिपदार्था- 10 भिरुचिरुपदेशसम्यक्त्वं, सर्वज्ञाज्ञयैव धर्मानुष्ठानविषया रुचिराज्ञासम्यक्त्वं, सूत्राध्ययनाभ्यासजन्यविशिष्टज्ञानतो जीवादिविषयिणी रुचिस्सूत्रसम्यक्त्वं, एकेन पदेनानेकपदार्थप्रतिसन्धानद्वारा प्रसरणशीला रुचिर्बीजसम्यक्त्वं, अर्थतः सकलसूत्रविषयिणी रुचिरभिगमसम्यक्त्वं, सर्वप्रमाणनयजन्यसर्वद्रव्यभावविषया रुचिर्विस्तारसम्यक्त्वं, दर्शनज्ञानचारित्रतपोविनयाद्यनुष्ठानविषयिणी रुचिः क्रियासम्यक्त्वं, अनभिगृहीतकुदृष्टेः प्रवचनानिष्णातस्य निर्वाण- 15 पदमात्रविषयिणी रुचिः संक्षेपरुचिः, धर्मपदवाच्यविषयकरुचिर्धर्मसम्यक्त्वमिति ॥ कदा तद्भवतीत्यत्राह-उत्कृष्टत इति । सम्यग्दृष्टीनां सर्वेषां किञ्चिन्न्यूनापार्धपुद्गलपरावर्त्तमात्रमेव संसारस्यावशेषात् , सोऽपि तीर्थकरादिकृताशातनाबहुलानामेव, न तु सर्वेषामिति भावः। जघन्यत इति, तस्मिन्नेव भवे मुक्तिगामिनोऽपीत्यर्थः । अत्रस्थो जीवस्सप्तसप्ततेर्बन्धकस्तीर्थकृदायुर्द्विकस्य च बन्धात् । चतुरुत्तरशतस्य वेदयिता मिश्रोदयव्यवच्छेदात् । आनुपूर्वीचतुष्क- 20 सम्यक्त्वोदयाच्च । अष्टत्रिंशदधिकशतसत्ताकश्च । उपशमकस्तु चतुर्थादेकादशं यावत्सर्वत्राष्टचत्वारिंशदधिकशतसत्ताकः क्षपकस्य तु सत्ता तद्गुणस्थाने दर्शयिष्यते ।।
सम्प्रति पञ्चमं गुणस्थानं दर्शयति
प्रत्याख्यानकषायोदयात्सर्वसावद्यस्यैकदेशाद्विरतस्य जघन्यमध्यमोत्कृष्टान्यतमवद्विरतिधर्मावाप्तिर्देशविरतगुणस्थानम् ॥
25 __ प्रत्याख्यानेति । सर्वसावधेभ्यो विरतिमभिलषतोऽपि वैराग्योपचयवतो जीवस्य सर्वविरतिघातकप्रत्याख्यानावरणकषायोदयान्नोत्पद्यते सर्वविरतिसामर्थ्यम् , अपि तु जघ
१. बद्धतीर्थकृन्नामकर्मणोऽवद्धायुषः प्राप्तक्षायिकसम्यक्त्वस्यापेक्षयेदम् ॥