________________
: १३० : तस्वम्यायविभाकरे
[ सप्तमाकरण विनो वाऽर्धविशुद्धः पुञ्जो यदोदेति तदाऽर्धविशुद्धा भगवदहदुदिततत्त्वश्रद्धा जायत इत्यतस्सम्यक्त्वात्प्रच्युतस्यापि मिश्रगमनमिति ॥ एतद्गुणस्थानस्थो जीवश्चतुस्सप्ततेर्बन्धकः, तिर्यक्त्रिकस्त्यानचित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचेोत्रोद्योताप्रशस्तविहायोगतिस्त्रीवेदव्यवच्छेदान्मनुष्यदेवायुषोरबन्धाच्च । वेदयिता शतस्य, मिश्रोदया. 5 देवमनुष्यतिर्यगानुपूर्व्यनुदयादनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिकोदयव्यवच्छेदाच्च । सप्तचत्वारिंशदुत्तरशतसत्ताकश्च भवति, तीर्थकृत्सत्ताभावात् ।।
अथ चतुर्थ गुणस्थानमाह-.
सम्यक्त्वे सत्यप्रत्याख्यानावरणकषायोदयेन सावद्ययोगात्सर्वथाsविरमणमविरतसम्यग्दृष्टिगुणस्थानम् । उत्कृष्टतो मनुजभवाधिकषट्षष्टि10 सागरोपमस्थितिकमिदम् । सम्यक्त्वश्च भव्यसंज्ञिपञ्चेन्द्रियाणां निसर्गादु
पदेशाद्वा भवति । उत्कृष्टतोऽपार्धपुद्गलपरावर्तावशिष्टसंसाराणामेत. द्भवेत् । जघन्यतस्तद्भवमुक्तिगामिनोऽपि ॥
सम्यक्त्वे सतीति । यत्राप्रत्याख्यानकषायोदयाजीवः सावद्ययोगप्रत्याख्यानं सुन्दरमिति जानन्नपि न पालयति केवलं सम्यक्त्वमात्रमनुभवति ताहशमित्यर्थः । इदमुक्तं भवति 15 यो हि पूर्वोदितौपशमिकसम्यग्दृष्टिः शुद्धदर्शनमोहपुञ्जोदयवर्ती वा क्षायोपशमिकसम्यग्दृष्टिः,
क्षीणदर्शनसप्तको वा क्षायिक सम्यग्दृष्टिरविरतिप्रत्ययं दुरन्तनरकादिदुःख फलकं कर्मबन्धं, सावद्ययोगविरतिश्च परममुनिप्रणीतसिद्धिसौधाध्यारोहनिःश्रेणिकल्पां जानन्नपि न विरतिमभ्युपगच्छति न च तत्पालनाय यतसेऽप्रत्याख्यानावरणोदयेन विघ्नितत्वात् , ते ह्यल्प
मपि प्रत्याख्यानमावृण्वन्ति, स इहाविरतसम्यग्दृष्टिरुच्यत इति । मिथ्यात्वमोहनीयस्यो20 दीर्णस्य क्षयादनुदीर्णस्योपशमाञ्च निर्वृत्तं सम्यक्त्वं क्षायोपशमिकसम्यक्त्वमुच्यते, यदुद
यमागतं मिथ्यात्वं तद् वेदितत्वात्क्षीणं, यत्तु शेषं सत्तायामनुदयगतं वर्तते तदुपशान्तमुपशान्तं नाम विष्कम्भितोदयभावमपनीतमिथ्यात्वस्वभावश्च शेषमिथ्यात्वं, अत्र च मिथ्यात्वमिश्रपुञ्जायाश्रित्य विष्कम्भितोदयं शुद्धपुञ्जमाश्रित्यापनीतमिथ्यात्वस्वभावमिति बोध्यम् ।
यद्यप्यौपशमिकेऽपि उदीर्णमिथ्यात्वस्य क्षयोऽनुदीर्णस्य चोपशमोऽस्ति तथाप्यत्र क्षायोप25 शमिकसम्यक्त्वे मिथ्यात्वं प्रदेशोदयेन वेद्यते, तत्र तदपि नेति विशेषोऽवसेयः । अत्र
शोधितमिथ्यात्वपुद्गला यथावस्थिततत्त्वरुच्यध्यवसायात्मकदृष्टेः सम्यक्त्वावारका न भवन्त्यतस्तेऽप्युपचारेण सम्यक्त्वमुच्यन्त इत्यपि बोध्यम् । अनन्तानुबन्धिकषायचतुष्कमयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वपुञ्जलक्षणे त्रिविधेऽपि दर्शनमोहनीये सर्वथा क्षीणे सति क्षायिकं सम्य