________________
मिश्रगुण. ] ग्यापप्रकाशसमलते
: १२९ : भावात् । प्रथमादन्यानि गुणस्थानानि भव्यस्यैव । ननु सास्वादनादितरेषां गुणस्थानानामूर्ध्वमूर्ध्वमारोहरूपतया गुणस्थानत्वं युक्तं, मिथ्यात्वस्याप्यव्यक्तमिथ्यात्वतो व्यक्तमिथ्यात्वप्राप्त्याऽऽरोहणस्वरूपत्वेन तथात्वं सास्वादनस्य सम्यक्त्वात्प्रपातरूपस्य कथं गुणस्थानत्वमिति चेन्न मिथ्यात्वगुणस्थानापेक्षयाऽस्याऽऽरोहणरूपत्वात् अपार्धपुद्गलपरावर्तावशेषसंसाराणां भव्यानामेवैतद्गुणस्थानेऽधिकारात् । अत्रस्थो जीव एकोत्तरशतबन्धकः, मिथ्यात्वनरक- 5 त्रिकैकेन्द्रियादिजातिचतुष्कस्थावरचतुष्काऽऽतपहुण्डसेवार्तनपुंसकवेदरूपषोडशप्रकृतिव्यवच्छेदात् । तथा सूक्ष्मत्रिकाऽऽतपमिथ्यात्वोदयव्यवच्छेदान्नरकानुपूर्व्यनुदयाच्चैकादशोत्तरशतवेदयिता । तीर्थकृत्सत्ताऽसम्भवात् सप्तचत्वारिंशदधिकशतसत्ताकश्च भवति ।
तृतीयं मिश्रगुणस्थानं सम्यमिथ्यादृष्टिगुणस्थानापराभिधं निरूपयति
मिश्रमोहनीयकर्मोदयादन्तर्मुहर्त्तस्थितिकोऽहंदुदिततत्त्वेषु द्वेषाभावो 10 मिश्रगुणस्थानम् । यथान्नापरिचितनारिकेलद्वीपनिवासिमनुजस्थाने । अत्र जीवो नायुर्बध्नाति न वा म्रियते । अपि तु सम्यक्त्वं मिथ्यात्वं वाऽवश्यं याति ॥
मिश्रेति । मिश्रमोहनीयकर्मोदयाद्दर्शनमोहनीयप्रकृतिविशेषोदयात् जीवेऽन्तर्मुहूर्त्तकालं लब्धौपशमिकसम्यक्त्वेन मिथ्यात्वमोहनीयं कर्म शोधयित्वा कृतत्रिपुञ्जमध्येऽर्धविशुद्धपुञ्जो- 15 दयतोऽर्धविशुद्धं यत्समतया सम्यक्त्वं मिथ्यात्वश्च भवेद्येन नाईदुदिततत्त्वेषु कश्चन द्वेषो न वा प्रीतिस्तन्मिश्रगुणस्थानमित्यर्थः, मिश्रत्वञ्चाऽस्योभयभावयोरेकरूपत्वात् , जात्यन्तरमेतत् बडवाखरयोस्संयोगेन जातस्य जात्यन्तराश्वतरवत्, दधिगुडसंयोगेन रसविशेषवच्च । समतायां निदर्शनमाह-यथेति । तस्य ह्यन्ने न द्वेषो न वा प्रीतिस्तद्वदिदमिति भावः । गुणस्थानेऽत्र जीवः किं करोतीत्यत्राह-अत्रेति । अस्मिन् गुणस्थान इत्यर्थः । तत्र हेतुमाह-अपि- 20 त्विति । अस्यान्तर्मुहूर्त्तस्थितिकत्वाद्भावान्तरगमनमावश्यकं तत्रैव चायुर्बन्धो मरणश्चेति भावः। - एवं क्षीणमोहे सयोगिन्यपि न मरणसम्भवश्शेषाणि मरणयोग्यानि गुणस्थानानि, तत्रापि . मिध्यात्वसास्वादनाविरतसम्यग्दृष्टिरूपाणि गणस्थानानि जीवेन सहोपयान्ति परभवं. नापराण्यष्टाविति बोध्यम् । अत्र मिथ्यात्ववत एव मिश्रगमनमिति सिद्धान्तमतम् , कार्मग्रन्थिकमते तु विहितविभागस्य सम्यक्त्ववतस्सम्यक्त्वप्रच्युतस्याष्टविंशतिसत्कर्मणो मिथ्या- 25
१. एतासां मिथ्यात्वप्रत्ययत्वान्नाग्रिमेषु बन्धः, यत एताः प्रायो नारकैकेन्द्रियविकलेन्द्रिययोग्यत्वादत्यन्ताशुभत्वाच मिथ्यादृष्टिरेव बध्नातीति ॥
१७