________________
तस्वन्यायविभाकरे
सामकिरणे प्रथमस्थितिमनुभवंस्तावद्गच्छति यावदावलिकाद्विकं शेषं तिष्ठति, प्रथमस्थितेरावलिकाद्विकशेषे त्वागालो व्यवच्छिद्यते केवलमुदीरणैव प्रवर्तते । प्रथमस्थितावावलिकाशेषीभूतायामुदीरणापि व्यवच्छिद्यते, ततः केवलेनैवोदयेन तामावलिकामनुभवति, तस्यामपि चापगता
यामुदयोऽपि मिथ्यात्वस्य न भवति दलिकाभावात् । तस्मिन्नेव समये उपशान्ताद्धायां 5 प्रविशति तत्र प्रविष्टस्य प्रथमसमय एव मोक्षबीजभूतमौपशमिकं सम्यक्त्वमवाप्नोतीति तात्पर्यार्थः । प्रथमस्थितिचरमसमये द्वित्तीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति शुद्धमर्धशुद्धमशुद्धश्चेति । तत्र शुद्धं सम्यक्त्वं देशघाति, देशघातिरसोपेतत्वात् । अर्धशुद्धं मिश्रमोहनीयमशुद्धन्तु मिथ्यात्वमेतदुभयं सर्वघाति, सर्वघातिरसोपेतत्वात् ॥
अथ श्रेणिगतं सम्यक्त्वमौपशमिकमुच्यते10. श्रेणितो मिथ्यात्वमोहनीयानन्तानुबन्धिचतुःकषायाद्युपशमनत: श्रेणिजन्योपशमसम्यक्त्वं भवति ।
श्रेणित इति । यदि चतुर्थपञ्चमषष्ठसप्तमान्यतमगुणस्थानेऽनन्तानुबन्धिनो दर्शनमो. हस्य च सर्वोपशमनायामुपशमसम्यक्त्वयुक्त उपशमश्रेणिं जीवस्सम्पद्यते तस्य यदौपशमिकं
सम्यक्त्वं तच्छ्रेणिजन्योपशमसम्यक्त्वमुच्यत इति भावः ।। 15 ननु द्विविधमुपशमसम्यक्त्वं लभमानाः सर्वे किमारोहका एव स्युरुतास्ति कश्चिद्विशेष इत्याशङ्कायामाह
उभयविधसम्यक्त्वात्पततः सास्वादनगुणस्थानं भवति ।। उभयविधेति । अस्ति विशेषः, कोऽसौ विशेष इत्याह पतत इति । न सर्वे आरोहका एव, किन्तु पतन्तीति भावः । ननु तर्हि किं तेषां गुणस्थानं भवतीत्यत्राह-सास्वादनेति । 20 सास्वादनमपीति भावः, अत्र तु सास्वादनमुभयविधसम्यक्त्वात्पतत एव भवति नान्येषामिति
सूचयितुं तथोक्तिरिति भाव्यम् । उपशमश्रेणितः प्रतिपतन् कश्चिदनन्तानुबन्ध्युदये साखादनगुणस्थानं लभते । गुणस्थानमिदं प्रतिपतत एव भवति न त्वारोहतः, मिथ्यात्वगुणस्थान न्तु प्रतिपततोऽपि, मिश्रादीनि च प्रतिपतत आरोहतश्च । एकादशं दशमादारोहत एव, ततोऽग्रे आरोहणाभावात् ततोऽधःपातनियमात् द्वादशादीनि सर्वाणि आरोहत एव, तेभ्यः प्रतिपाता
१. आन्तौहूर्तिक्यामुपशमाद्धायां जघन्यतस्समयशेषायामुत्कृष्टतः षडावलिकाशेषायां सत्यां कस्यचिन्महाविभीषिकोत्थानकल्पोऽनन्तानुबन्ध्युदयो भवति, तदुदये चासौ सास्वादनसम्यग्दृष्टिगुणस्थाने वर्तते । मिथ्यात्वस्याद्याप्यप्राप्तत्वादव्यक्तमुपशमगुणस्य वेदनादस्य गुणस्थानस्य गुणस्थानत्वमिति भावः ॥ ..