________________
श्रावकधर्मः ]
म्यायप्रकाशसमलवृते । लक्ष्मीस्थैर्यजनप्रशंसादिफलमिह परत्र च नरामरसमृद्धिसिद्ध्यादीति पञ्चममणुव्रतम् । एतेषामणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतानि त्रीणि भवन्ति । दिग्व्रतं भोगोपभोगव्रतमनर्थदण्डविरमणश्चेति । नानाविधा दिशश्शास्त्रेऽभिहिताः, तत्र सूर्योपलक्षिता या सा पूर्वा तदनुक्रमेण दक्षिणादिका भाव्याः, तत्र दिक्सम्बन्धिव्रतं दिग्वतं, एतावत्सु पूर्वादिदिग्विदिग्भागेषु गमनादि मयाऽनुष्ठेयं न परत इत्येवम्भूतं दिव्रतम् । गुणव्रतप्रतिपत्ति- 5 मन्तरेणाणुव्रतानां तथाविधविशुद्धिविरहेणेदं गुणव्रतमुच्यते, अनेन चावगृहीतक्षेत्राद्वहिः स्थावरजङ्गमाभयदानलोभाम्भोधिनियंत्रणादिमहालाभो भवति । गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति भुङ्क्ते शेते व्यापार वा कुरुते तत्र तत्र तप्तायोगोलकवजीवोपमई करोतीति तस्यैव हिंसादिपापस्थाननिवर्तकमेतत् , न साधूनाम् , समितिगुप्यादिप्रधानव्रतशालित्वात्तेषामिति प्रथमं गुणव्रतम् । भोगोपभोगमानव्रतं द्वितीय, तत्र भोगस्सकृदेव भोगयोग्यो यथाऽ. 10 नमाल्यताम्बूलादि, पुनः पुनर्भोगयोग्य उपभोगो यथा वनितावस्त्रालङ्कारगृहशयनादि, तत्र यथाशक्ति परिमाणकरणं भोगोपभोगमानव्रतम् , तत्र श्रावकेण निसर्गतो निरवद्याहारभोजिना भवितव्यम् , तस्मिन्नसति सचित्तपरिहारः कर्तव्यः, तत्राप्यसामर्थेऽतीव सावद्यान्मद्यामिषानन्तकायादीन् विहाय प्रत्येक मिश्रसचित्तादीनां परिमाणन्तु कर्त्तव्यमेव, तथा विना महोत्सवादिकारणविशेषेणातीव चेतोविकारासक्तिजनापवादादिनिमित्तात्युद्भटवेषवाहनाल- 15 कारादिकमपि श्रावको वर्जयेत्, एवमतिमालिन्यातिस्थलह्वस्वसच्छिद्रवस्त्रादिपरिधानेऽपि फुचेलत्वकार्पण्यादिलोकापवादहास्यप्रसङ्गेन निजसम्पत्तिवयोवासस्थानकुलादियोग्यं वेषमारचयेत् । उचितवेषादौ च प्रमाणनियमनमनुष्ठेयम् । एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्त्तनमज्जनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्य शेषश्च त्याज्यम् , इत्येवं भोजन-20 माश्रित्योक्तम् । कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यम् । तदशक्तावप्यत्यन्तसावद्यविवेकिजननिन्द्यक्रयविक्रयादिकर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं करणीयम् । इत्थश्चेदं व्रतं भोक्तं योग्येषु परिमाणकरणेन इतरेषु तु वर्जनेन भवतीति द्वितीयं गुणव्रतम् । अनर्थदण्डविरमणं तृतीयं, अर्थः प्रयोजनं गृहस्थस्य क्षेत्रवस्तुधनधान्यं शरीरपालनादिविषयं तदर्थमारंभो भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति के पर्यायाः । अर्थेन प्रयोजनेन दण्डोऽर्थदण्डः, स चैवम्भूत उपमर्दनलक्षणो दण्डः क्षेत्रादि प्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, स्वस्वीयस्वजनादिनिमित्तं हि विधीयमानो भूतोपमर्दस्सप्रयोजनत्वादर्थदण्डो भवति, तद्विपरीतोऽनर्थदण्डः, तद्भेदास्तु चत्वारोऽपध्यानपापकर्मोपदेशहिंसकार्पणप्रमादाचरणभेदात् । तत्राप्रशस्तं यदातरौद्रभेदभिन्नं स्थिराध्यवसानरूपं ध्यान