________________ उपशमसम्यक्त्वम् ] न्यायप्रकाशसमलङ्कृते : 125 : भव्यत्वपरिपाकेनानाभोगनिर्वर्तितेनाध्यवसायविशेषेण यथाप्रवृत्तिकरणेनाऽऽयुर्वर्जानि ज्ञानाकरणीयादिकर्माणि सर्वाण्यपि पल्योपमासंख्येयभागन्यूनैकसागरोपमकोटीकोटिस्थितिकानि करोति, अत्र चान्तरे गुरुतरकठोरतरुग्रन्थिवदुर्भेदः कर्मपरिणामजन्यो जीवस्य घनरागद्वेषपरिणामरूपोऽऽभिन्नपूर्वो प्रन्थिर्भवति, यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा प्रन्थिमिमं यावदभव्याअप्यनेकशः समागच्छन्ति / ततो ग्रन्थिभेदविधानासमर्थाः पुनरपि कर्माण्युत्कृष्टस्थितिकानि 5 संक्लेशवशा बध्नन्ति / यः पुनर्महात्मा कश्चिदासन्ननिर्वृतिसुखो दुर्धर्षवीर्यवानपूर्वकरणस्वरूपेण परमविशुद्धिविशेषेण विधाय भेद तद्वन्थेः मिथ्यात्वमोहनीयकर्मस्थितेरन्तमुहूर्तमुदयक्षणादुपरि गत्वाऽनिवृत्तिकरणसंज्ञितेनान्तर्मुहूर्त्तकालमानं तत्प्रदेशवेद्यदलिकाभावरूपमन्तरकरणं करोति, कृते च तस्मिन् कर्मणस्तस्य स्थितिद्वयं भवति, एकाऽ- . न्तर्मुहूर्त्तमानाऽन्तरकरणादधस्तनी प्रथमा, तत उपरितनी द्वितीया, तत्र प्रथमस्थितौ 10 मिथ्यादृष्टिरेव, मिथ्यात्वदलिकवेदनात्, अन्तर्मुहूर्तेनापगतायाश्च तस्यामन्तरकरणस्याद्य एव समये औपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् / तस्याञ्चोपशान्ताद्धायामान्तौंहूर्तिक्यां जघन्येन समय शेषायामुत्कर्षेण षडावलिकाशेषायां कस्यचित्पुंसः केनचिन्निमित्तविशेषेणानन्तानुबन्ध्युदयो भवति, तदानीमसौ सास्वादनगुणस्थाने वर्त्तते, उपशमश्रेणिप्रतिपतितो वा सास्वादनत्वं यातीति कार्मग्रन्थिकमतम् , सिद्धान्तमते तु 15 श्रेण्यास्समाप्तौ प्रतिपततः प्रमत्तगुणस्थानेऽप्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवे- . ध्वविरतो भवतीति / सास्वादनोत्तरकालञ्चाऽवश्यं मिथ्यात्वोदयादयं मिथ्यादृष्टिर्भवतीति / स कियन्तं कालमस्मिन् गुणस्थाने वर्तत इत्यत्राह-समयादीति / जघन्येनैकः समय उत्कर्षेण षडावलिकाप्रमाणं, तत ऊर्ध्व मिथ्यात्वोपगमात् , आवलिका चाऽसंख्यातसमयसमुदायरूपेति भावः // 20 तत्र कितावदुपशमसम्यक्त्वं यस्मात्पतितोऽनवाप्तमिथ्यात्वस्सास्वादनगुणस्थानभाग्भवतीत्यत्राह 25 अनादिकालानुवृत्तमिथ्यात्वप्रथमकषायचतुष्कोपशमनजन्यं सम्यक्त्वमुपशमसम्यक्त्वम् / तद् द्विविधमन्तरकरणजन्यं स्वश्रेणिजन्यश्चेति। उपशमसम्यक्त्वं करणत्रयापेक्षम् // 'अनादिकालेति / अनादिकालादनुवृत्तं यन्मिथ्यात्वं यच्च प्रथमकषायचतुष्कमनन्तानुबन्धिक्रोधमानमायालोभरूपं तस्योपशमेन जन्यं यत्सम्यक्त्वं तदुपशमसम्यक्त्वमित्यर्थः / एकस्यापि क्रोधादेरुदये प्रतिपातात् / एतस्य सम्यक्त्वस्य द्वैविध्यमाह-अन्तरेति / तत्रापूर्व